मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 200, कुल 672 में से
संदर्भ में पढ़ेंअथ प्रमेयकाण्ड द्वितीय परिच्छेद प्रारम्भः. (38) धर्मधर्मिभाववादः. 1 अथ मीमांस्यते धर्मधर्मिभावे विदां मतम् । सर्वेषां च विवादानां प्रायशोऽत्रैव विश्रमः ॥ सदसत्कार्यवादो वा नित्यानित्यविकल्पना । क्षणास्थिरविवादश्च सृष्टिप्रळयकल्पना ॥ द्वैताद्वैतविवादश्च मोक्षवादोऽपि तादृशः । तदुपायविवादो वा वादेऽस्मिन् पर्यवस्यति ॥ अद्रव्यवादिनः केचित्केचिद्द्रव्यैकवादिनः । तदैक्यवादिनः केचित् केचित्तद्भेदवादिनः ॥ भेदाभेदं वदन्त्यन्ये केचित्सन्मात्रवादिनः । असन्मात्रविदः केचित् तेषां भावोऽवमृश्यताम् । 2 स्पर्शादीन् जगतो धातून् पञ्च वैभाषिका विदुः शब्दात्मनश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ स्पर्शाद्येकद्वित्रिचतुस्स्वभावानपरे विदुः । निर्धर्मका निराधाराः न चेत्स्यादनवस्थितिः ॥ धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां, तथा स्यादनवस्थितिः ॥ 158