मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 202, कुल 672 में से
संदर्भ में पढ़ें60 मानमेयरहस्यश्लोकवार्तिके एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतस्स्वयम् । कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥ स्वलक्षणः स प्रत्यक्षः निर्विकल्पकगोचरः । इत्याहुस्ते हि सन्मात्रवादिनः धर्मिवादिनः ॥ सामान्यवादिनश्चापि तथैवापोहवादिनः । बाह्याद्वैतिन इत्येवं कथ्यन्ते बहुरूपतः ॥ भेदे धर्मिस्वरूपे तु भ्रमः क्वापि न संभवेत् । धर्मरूपेऽनवस्था स्यात् अन्योन्याश्रयताऽपि वा ॥ भेदकाग्रहणे भेदो न गृह्येत कथंचन । तस्य चाग्रहणे सोऽपि न गृह्येतेति संग्रहः ॥ अभावस्य यथा देशकालाद्यैः सिद्धिरन्यथा । तथा रूपादिवस्तूनां किं न स्यात्सिद्धिरन्यथा ॥ साधारणोऽथान्यथा वा संबन्धो धर्मधर्मिणोः । आद्ये सकलसांकर्यं अन्त्ये भेदो न सिद्ध्यति ॥ आधाराधेयभावोऽपि न भेदे व्यवतिष्ठते । स्वभावात्रियमश्चेत्स्यात् स्वभावादेव चैकता ॥ 4 सौत्रान्तिकानां सिद्धान्तः प्रायेणायमिति स्थितः। द्रव्याद्रव्यैक्यसिद्धान्तस्त्वथ कापिलसम्मतः ॥ वस्तुजातं प्रतीत्यैव व्यवस्थाप्यं हि सर्वशः । धर्मी धर्मः प्रतीयेते नातोऽन्यतरनिह्नवः ॥