मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 203, कुल 672 में से
संदर्भ में पढ़ेंधर्मधर्मिभाववादः 1 कार्यकारणयोर्द्रव्यगुणयोः कर्मकर्मिणोः । जातिव्यक्त्योरभेदोऽयं सम्मतोऽयुतसिद्धयोः ॥ धर्मत्वादथ कार्यत्वात् संयोगाप्राप्त्यसंभवात् । संवित्त्युत्पत्तिसत्तानां भेदेनानवभासनात् ॥ धर्मोऽसौ धर्म्यभिन्नस्स्यादिति सांख्यव्यवस्थिति कथंचिदाश्रितत्वादिः स्यात्तु भेदविवक्षया ॥ यथेह कानने सन्ति तिलका इति गीस्तथा । 5 वैशेषिकादयः केचिद्भेदमेकान्ततो विदुः ॥ प्रतीतिं व्यवहारं च प्रमाणं तेऽपि मन्वते । दर्शनस्पर्शनाभ्यां चाप्येकार्थग्रहणादिति ॥ अबाधिता प्रत्यभिज्ञा धर्म्यभावे हि दुर्घटा । धर्माभावः पट्वपटुप्रत्ययानुपपत्तितः ॥ पीतशङ्खभ्रमादेश्चाप्ययोगान्न हि संभवी । स एवच तदैवान्यैः शुक्लत्वेनोपलभ्यते ॥ अधिष्ठानस्य कार्त्स्न्येन भानेऽभाने च न भ्रमः भाताभाताकृतिर्भिदा कथं निर्धर्मके भवेत् ॥ आविर्भावतिरोभावधर्मकेष्वनुयायि यत् । तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥ ग्राह्यभेदे ग्राहकाणां भेदस्स्यादन्यथापुनः । अन्योन्यसंश्रयापत्त्या विजयी मध्यमागमः ॥ M.R. 21