मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 204, कुल 672 में से
संदर्भ में पढ़ें162 मानमेयरहस्यश्लोकवार्तिके वेद्यहेतुफलाकारैः भिन्नैरेका समेति धीः । तथा बाह्येऽपि दृष्टत्वात् युगपत्क्रमशोऽपिवा ॥ प्रतिसंबन्ध्यनेकत्वं यथा नैकस्य बाधकम् । तथा संबन्ध्यनेकत्वं नाश्रयैकत्वबाधकम् ॥ अनादाविह संसारे पूर्वपूर्वोपदॆशतः । शिक्ष्यमाणाः पुनर्बालाः व्युत्पद्यन्ते तथातथा ॥ सर्वोऽपि भेदो युगपत्सहसैवोपलभ्यते । सेनावनसभातारामण्डलादिविभागवत् ॥ आगन्तुकोऽथवाऽवस्था धर्मो मिथ्येति न क्षमः । जननादेश्च मिथ्यात्वे नित्यत्वं वाऽथ तुच्छता ॥ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥ अस्तीहीति प्रतिज्ञाने नास्तीहीत्युत्तरं क्षमम् । प्रवृत्तिभिर्विशिष्टार्था बालमूकादिधीरपि ॥ 6 ननु निर्धर्मको धर्मः उत वा स्यात्सधर्मकः । आद्येऽभिलपनं न स्यात् अन्त्ये स्यादनवस्थितिः॥ केचिद्धर्माः धर्मिणः स्युः स्वान्यनिर्वाहकाः परे । गोत्वादिनिष्कर्षशब्दे धर्मी धर्मविशेषकः॥ सत्त्वं प्रामाणिकत्वाख्यं प्रमेयत्वं च वाच्यता । पदार्थत्वादिकं सर्वैः स्वस्ववृत्तीति सम्मतम् ॥