भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 250, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 250

208 मानमेयरहस्यश्लोकवार्तिके

नास्यास्मिन् रमणं वेति निरुक्तं यास्कसूरिणा । इति गौतमशास्त्रस्य भाष्ये मस्करिणोदितम् ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ हिंसास्तेयानृताब्रह्मचर्यग्रहणभेदतः । निषिद्धं कर्म सकलं संजग्राह पतञ्जलिः ॥ यत् शौचसंतोषतपस्स्वाध्यायेश्वरसेवनम् । विहितस्य च सर्वस्य पञ्चधा संग्रहो ह्ययम् ॥ 2 नित्यकाम्यविभेदेन विहितं द्विविधं पुनः । काम्यमेव हि कर्मेति यदि मीमांसका विदुः ॥ सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि । सर्वोऽपि वैदिकः पन्थाः भवेद्दत्तजलाञ्जलिः ॥ कैश्चित्तु सकलं कर्म नित्यमेवेति भण्यते । तथात्वे पुरुषाशक्त्या शास्त्रं हि स्यादवत्सलम् ॥ तन्नित्यकाम्यभेदेन विभागो न्यायविन्मतः । तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम् ॥ नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः । फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः ॥ नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते । प्रत्यवायपरीहारफलं नित्यं प्रचक्षते ॥