भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 251, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 251

हिंसावादः 209 पापक्षयफलं केचित् काम्यं चापि क्वचित् यदा । आरब्धे कामनाहानादुक्ताङ्गशक्तिसंभवे ॥ नित्यं सामान्यफलतः काम्यं फलविशेषतः । पापक्षयादिस्सामान्यं पश्वादिस्तु विशेषतः ॥ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं फलम् ॥ 3 नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् । प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥ (47) हिंसावादः. 1 कर्माङ्गपशुहिंसादिः हिंसेत्येव हि कापिलाः । यत्पशुर्मायुमित्यादिमन्त्रलिङ्गेन सा दृढा ॥ तत्त्याज्यं दोषवदिति चान्ववादीद्यदूत्तमः । यज्ञदानतपःकर्म न त्याज्यमिति चाब्रवीत् ॥ 2 अपि पापं निषिद्धं स्यात् श्येनस्य विहितत्वतः यागाङ्गपशुहिंसावत् हिंसात्वं नेति केचन ॥ 3 साक्षान्मरणहेतुर्यः स हिंसाशब्दशब्दितः । श्येनस्यातादृशत्वेन न हिंसेत्यपरे विदुः ॥ अदृष्टद्वारकत्वेन मृतिः कैश्चिद्विवक्ष्यते ।