मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 252, कुल 672 में से
संदर्भ में पढ़ें[Header] मानमेयरहस्यश्लोकवार्तिके
अभिचारे कृते प्रायश्चित्तस्यापि विधानतः । अधर्म एव श्येनादिरिति तार्किकपद्धतिः ॥ धर्मस्त्विष्टस्य बलवदनिष्टाननुबन्धिनः । साधनं स्यात्ततो हिंसानिषेधश्श्येनगोचरः ॥ 4 मीमांसकास्तु श्येनस्य धर्मत्वमनुजानते । तत्र कौमारिलमते हिंसा श्येनफलं मतम् ॥ अभिचारो हि मरणानुगुणव्यापृतिर्मता । श्येनो विधीयते तस्मान्न निषेधस्य गोचरः ॥ तथाऽपि तामसत्वेन शिष्टास्तावन्न कुर्वते । प्रभाकरमते श्येनापूर्वं कर्तव्यमिष्यते ॥ यागो निषेधविषयः विरोधविरहस्ततः । प्रायेणाधर्म इत्येव परेषामिव सम्मतः ॥ कर्मस्वपि च काम्येषु विधिरेव प्रवर्तकः । फलरागात्प्रवृत्तिश्चेत् निषिध्येत क्रतौ वधः ॥ साध्यसाधनविध्यन्तलक्षणांशत्रयस्थिता । हिंसा तत्र फलांशस्था निषेधविषयो मता ॥ अङ्गद्वये तु या नाम तन्निषेधाभिधायिनाम् । अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् ॥ निषेधेनानवष्टब्धे विषये न ह्यनर्थता । प्रत्यक्षादेरशक्यत्वात् कल्प्यते निष्प्रमाणिका ॥