मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 253, कुल 672 में से
संदर्भ में पढ़ेंहिंसावादः 21 ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः । ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ॥ व्यवस्थाश्चाशक्तिभेदानां दृष्टार्थेष्वपि कर्मसु । अभिन्नत्वेऽपि दृश्यन्ते भुजेः स्वस्थातुरेष्वपि ॥ इति वार्तिककारीययुक्तिसिद्धान्तसंग्रहः । 5 अथ वेदान्तिनां तत्त्वविदां सिद्धान्तसंग्रहः ॥ अनर्थपर्यवसितः दुःखस्य जनकश्च यः । व्यापारस्त हि हिंसेति श्रीरामानुजनिर्णयः ॥ सर्वापहारे नाव्याप्तिः नातिव्याप्तिश्चिकित्सने । यज्ञे वधोऽवधो यस्मात्पशुर्देवत्वमृच्छति ॥ यत्किंचिदपि कार्यं तु नियोगादेव कुर्वताम् ॥ न प्रत्यवायशङ्काऽस्ति शासनादिव भूभृताम् ॥ श्येनादिवचनं शत्रुहिंसायत्तवतां स्वतः । उपायबोधनपरमिति वैषम्यकल्पना ॥ तत्र प्रायश्चित्तकाम्यपश्वालम्भनकर्मणाम् । प्रत्यवायापादकत्वप्रसङ्गः श्येनसाम्यतः ॥ अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्ती भवेन्नरः ॥ इत्यादिशास्त्राद्विहिताकरणादिनिमित्ततः । प्रत्यवायाद्धि भीतोऽसौ प्रायश्चित्तमिहेच्छति ॥