मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
हिंसावादः 21 ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः । ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ॥ व्यवस्थाश्चाशक्तिभेदानां दृष्टार्थेष्वपि कर्मसु । अभिन्नत्वेऽपि दृश्यन्ते भुजेः स्वस्थातुरेष्वपि ॥ इति वार्तिककारीययुक्तिसिद्धान्तसंग्रहः । 5 अथ वेदान्तिनां तत्त्वविदां सिद्धान्तसंग्रहः ॥ अनर्थपर्यवसितः दुःखस्य जनकश्च यः । व्यापारस्त हि हिंसेति श्रीरामानुजनिर्णयः ॥ सर्वापहारे नाव्याप्तिः नातिव्याप्तिश्चिकित्सने । यज्ञे वधोऽवधो यस्मात्पशुर्देवत्वमृच्छति ॥ यत्किंचिदपि कार्यं तु नियोगादेव कुर्वताम् ॥ न प्रत्यवायशङ्काऽस्ति शासनादिव भूभृताम् ॥ श्येनादिवचनं शत्रुहिंसायत्तवतां स्वतः । उपायबोधनपरमिति वैषम्यकल्पना ॥ तत्र प्रायश्चित्तकाम्यपश्वालम्भनकर्मणाम् । प्रत्यवायापादकत्वप्रसङ्गः श्येनसाम्यतः ॥ अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्ती भवेन्नरः ॥ इत्यादिशास्त्राद्विहिताकरणादिनिमित्ततः । प्रत्यवायाद्धि भीतोऽसौ प्रायश्चित्तमिहेच्छति ॥
कामी च पुत्रपश्वन्नस्वर्गभूत्यादिसाधने । प्रवर्त्ततेऽतः श्येनादिसाम्यं स्यान्निष्प्रतिक्रियम् ॥ तत्त्वटीकाकृतामुक्तिरत्रैषाऽप्यवधार्यताम् । एषौपनिषदानां स्यात् गतिः प्रायेण सम्मता ॥ मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः । कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्रुते ॥ श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः । एकस्यैवैकदैवास्ति कालभेदे तु किम्पुनः ॥ श्येनेषुवज्रप्रभृतिष्वपि नानर्थचोदना । इष्टस्यारातिभङ्गादेरुपायांशोपदेशतः ॥ घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणा । लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते ॥ किंचानभिचरन् षट्सु पतेदित्यपि शिष्यते । तेन धर्मोपयुक्तत्वमाततायिवधे विदुः ॥ 6 वेदो हिंसामयस्तस्मादनुपादेय इत्यपि । आपाततस्तु पश्यन्तो बाह्या नार्हन्ति शङ्कितुम् ॥ 7 अथ कार्त्तयुगो धर्मः पुंविशेषव्यवस्थितः । नारायणीये विस्पष्टः भारते शान्तिपर्वणि ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ऋषीणां चैव संवादं त्रिदशानां च भारत ॥
हिंसावादः २ अजेन यष्टव्यमिति प्राहुर्देवाः द्विजोत्तमान् । स चाप्यजश्छाग एव नान्यः पशुरिति स्थितिः बीजैर्यज्ञेषु यष्टव्यमित्याहुर्मुनयः पुनः । अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥ व्रीह्यादिभिः पुनरजैः त्रिवर्षपरमोषितैः । बीजैरजं पिष्टमयं कृत्वा यष्टव्यमित्यपि ॥ नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः । अथ ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥ अपृच्छन् सहसाऽभ्येत्य वसुं राजानमन्तिकात् भो राजन् केन यष्टव्यं अजेनाहोस्विदौषधैः ॥ देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् । छागेनानेन यष्टव्यमेवमुक्तं वचस्तदा ॥ कुपितास्ते ततस्सर्वे मुनयस्सूर्यवर्चसः । सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ॥ तत एनं समुत्क्षिप्य सहसा विनतासुतः । उत्पपात नभस्तूर्णं ततश्चैनममुञ्चत ॥ तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरो वसुः । सशरीरो गतश्चैव ब्रह्मलोकान् नृपोत्तमः ॥ इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः । अहिंस्या यज्ञपशवः युगेऽस्मिन्न तदन्यथा ॥
214 मानमेयरहस्यश्लोकवार्त्तिके चतुष्पात्सकलो धर्मः भविष्यत्यत्र वै सुराः । ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥ प्रोक्षिता यत्र पशवः वधं प्राप्स्यन्ति वै मखे । यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥ यत्र देवाश्च यज्ञाश्च तपस्सत्यं दमस्तथा । अहिंसाधर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः ॥ स वो देशस्सेवितव्यः मा वो धर्मः पदा स्पृशेत् इत्याह भगवान् साक्षाद्देवान्प्रति हरिः स्वयम् ॥ 8 अतीते तु महाकल्पे जातो विद्वान् बृहस्पतिः । तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ॥ स राजा भावितः पूर्वं दैवेन विधिना वसुः । पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ तस्य यज्ञो महानासीत् अश्वमेधो महात्मनः । बृहस्पतिरुपाध्यायः तत्र होता बभूव ह ॥ प्रजापतिसुताश्चात्र सदस्याश्चाभवन् त्रयः । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ संभृतास्सर्वसंभाराः तस्मिन् राजन् महाक्रतौ । न तत्र पशुघातोऽभूत् राजैवावस्थितोऽभवत् ॥ अहिंस्रश्शुचिरक्षुद्रः निराशीः सर्वसंस्तुतः । आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥
हिंसावादः 215 प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः । साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥ स्वयंभागमुपाघ्राय पुरोडाशं गृहीतवान् । अदृश्येन कृतो भागः देवेन हरिमेधसा ॥ पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति । अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥ शान्तियज्ञरतो दान्तः ब्रह्मयज्ञे स्थितो मुनिः । वाङ्मनःकर्मयज्ञश्च भविष्याम्युपगायने ॥ कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ९ पुरूरवस आख्याने पुराणे वैष्णवेऽपिच । एकोऽग्निरादावभवत् स च त्रेधा प्रवर्तितः ॥ तेन मन्वन्तरे तत्र ततो यज्ञसमुद्भवः । इति श्रुतं ततः पूर्वं हिंसा नास्तीति गम्यते ॥ एवंच देशकालादेर्विपर्य्यासात्तदातदा । हिंसाऽहिंसाविभागः स्यात्पुंशक्त्यनुगुणस्त्वसौ ॥ १० अत्र केचित्पुरा हिंसाबहुला जगति स्थिता । प्रवृत्तिरथ बुद्धादेरुपदेशादनन्तरम् ॥ अहिंसा प्रथमो धर्मः इति सर्वत्र सुस्थितम् । स एव धर्मः प्रागासीदस्माकमिति वैदिकैः ॥
216 मानमेयरहस्यश्लोकवार्तिके पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः । परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते ॥ तदिष्टमपिचास्माकं अनादित्वेन जानताम् । व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम् ॥ अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते । बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा ॥ तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम् । आविर्भावतिरोभावौ देशे काले भविष्यतः ॥ सनातनस्स एवासौ धर्म इत्याहुरादिमाः । मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम् ॥ (48) अदृष्टसामर्थ्यम्. 1 अथात्रावसरात्कर्मसामर्थ्ये किंचिदुच्यते । कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः ॥ अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति । कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति ॥ अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा ॥ कर्मादिनिरपेक्षं च कारणं परमेश्वरः । सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे ॥
अदृष्टसामर्थ्यम् 21 शरीरधारणं पुंसां सर्वेषामप्यपेक्षितम् । चिरकालं तन्न शक्यं कर्तुं यत्नशतैरपि ॥ नचौदासीन्यमात्रेण तन्निवृत्तिश्च दृश्यते । नियतावधिको देहः स्यादारम्भककर्मणा ॥ विवाहो जन्म मरणं जरा चेत्येवमादयः । नियता इति शास्त्रेषु स्मरन्त्यपिच कार्मिकाः ॥ 2 अत्रायमाशयो ज्ञेयः न्यायाचार्यैः प्रकाशितः । चित्राक्षेपपरीहारे भाष्यवार्तिकयोरपि ॥ अनुरुध्यैव तं न्यायं वेदान्ताचार्यसूरिभिः । गीतातृतीयतात्पर्यचन्द्रिकायां स्फुटीकृतः ॥ नियतं चाप्यनियतं द्विधा कर्मफलं स्मृतम् । आद्यं प्रबलशापादिसंभवं नियतं तु तत् ॥ इतरत्स्यादनियतं देशकालाद्यपेक्षया । नतु स्वरूपतो येन निष्फलत्वं प्रसज्यते ॥ यच्चात्रानियतं तत्रावकाशः पुरुषस्य हि । यच्चापि दृष्टसामग्रीवैकल्याद्विकलं भवेत् ॥ यच्चाधिकृत्य सुधियां लोकानुग्रहकारिणाम् । नीतिमन्त्रौषधप्रायश्चित्तशास्त्रादिदेशना ॥ अन्यथा विजिगीषूणां समृद्धपरिपन्थिनाम् । चतुरङ्गादिकं नैव स्वीकार्यं स्यान्महीक्षिताम् ॥ M.R. 28
218 मानमेयरहस्यश्लोकवार्तिके भेषजं नोपभुज्येत विबुधैरातुरैरपि । स्वेच्छया करणाभावे शास्त्रादेरप्यनुत्थितिः ॥ तत्सा स्वतन्त्रता पुंसां कर्मकर्तृत्वकारणम् । येच्छानुकूलानुष्ठानसामर्थ्येऽन्यानिवार्यता ॥ 3 अथ प्राक्प्राक्कर्ममूलज्ञानेच्छादिनियन्त्रितः । कथं स्वतन्त्रः पुरुषो नदीवेगहतो यथा ॥ नहीच्छोत्पत्तिमात्रेण पुंसामर्थ्यं विनश्यति । प्रायेण विपरीतेच्छामसत्कुर्वन्ति सूरयः ॥ सत्यामप्योदनेच्छायां विषसंपृक्तताधिया । तन्निवारणसामर्थ्यं चेतनस्येह दृश्यते ॥ निधिलाभोपायदृष्ट्या नरः काष्ठनिचायकः । विनिवारयितुं शक्तः काष्ठसंपादनस्पृहाम् ॥ एवंच प्रत्यवायस्य तथाऽधिकफलस्य वा । ज्ञाने सतीच्छान्तरस्य दृश्यते विनिवारणा ॥ पुंसां स्वातन्त्र्योपपत्त्या कर्तृत्वं युज्यते ततः । तत्कृत्याकरणाकृत्यकरणेच्छानिवारणे ॥ क्षमोऽपि प्रत्यवायस्यानादरेण विमूढधीः । न निवारयतीत्येषोऽपराधो दण्डकारणम् ॥ 4 सामान्येनेश्वरः कर्ता ह्यङ्कुराणां जलं यथा । विना तेन तृणस्याग्रं न चलेदिति कीर्त्यते ॥
अदृष्टसामर्थ्यम् 21
तथा कारयिता चानुमन्ता साक्षीत्यपीष्यते । करुणावसरस्तत्र श्रीभाष्योक्तोऽवधार्यताम् ॥ स्वशासनोल्लंघनाभिसन्धिविच्छेदमात्रतः । अनादिकालोपचितानन्तदुर्विषहागसाम् ॥ अनभ्युपगमद्वारा सुखसंवृद्धये स्वयम् । यतते च तथाचोक्तं वसुदेवतन्भूवा ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 5 अथपुण्यापुण्यरूपकर्मशक्तिनिबन्धनाः । सर्वा व्यवस्थाः सिध्यन्ति कृतमीशेन तादृशा ॥ पुरुषार्थानुरूपा सा प्रकृतिः परिणंस्यते । तथा व्यवस्थया कर्मसंस्कारैरभिसंस्कृता ॥ परिणामविशेषोऽस्ति देशकालव्यवस्थया । विषादिदूषितस्यान्नपानादेर्दुःखकारणम् ॥ दृश्यते परिणामश्च सुखहेतुस्तथा भुवि । महौषधाप्यायितस्याप्यन्नादेः देशकालयोः ॥ अत्रोच्यतेऽनभिज्ञस्त्वं पुण्यापुण्यस्वरूपयोः । पुण्यापुण्यस्वरूपे हि शास्त्रैकाधिगते स्थिते ॥
220 मानमेयरहस्यश्लोकवार्तिके शास्त्रं चानादिनिधनाच्छिन्नपाठसमागतम् । अनाघ्रातप्रमादादिदोषं वेदाभिधं मतम् ॥ तच्चाह कर्मणी पुण्यापुण्ये तस्याखिलेषितुः । आराधनं तदन्यच्च कोऽत्र पर्यनुयुज्यताम् ॥ अनुग्रहान्निग्रहाच्च सुखदुःखे हि तत्फले । इत्यौपनिषदैकान्तः बादरायणसम्मतः ॥ न च प्रीतेरपूर्णत्वं न च कोपात्सदुःखता । फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः ॥ 6 ईश्वरेच्छाऽधिकारो वा वासना पुद्गलोऽपि वा । अदृष्टं वाऽपि दृष्टं वा न्यायस्त्वेकोऽवधार्यताम् दृष्टार्थस्यापि सेवादेरायातमपि सत्फलम् । उत्पद्यते चिरेणैव प्रतिबन्धेन केनचित् ॥ स्वाभाविक्येव सर्वेषामुत्पत्तिरिति केचन । किमदृष्टेन दृष्टेन हेतुना वेति तन्मतम् ॥ निर्निमित्ता नचोत्पत्तिः न च सर्वाप्रमाणता । बोधयन्ति प्रमाणानि सर्वाणि सनिमित्तताम् ॥ ईश्वरेच्छाधिकारादौ शब्दलिङ्गादिवर्जनात् । व्यभिचाराच्च सेवादेः पश्वादेस्साधनान्तरम् ॥ तच्च चित्रादिकमिति शब्देन त्ववगम्यते । तदपि स्यादनियतमिति कौमारिला विदुः ॥
[Header] अदृष्टसामर्थ्यम् 221
एतद्देहानुभाव्यं यत्तदैहिकफलं मतम् । देहान्तरानुभाव्यं तु विदुरामुष्मिकं बुधाः ॥ 7 भर्तृमित्रादयस्त्वाहुश्चित्राद्यैहिकसाधनम् । क्वचित्फलादर्शनं तु प्रबलप्रतिरोधतः ॥ प्रतिबन्धककर्मापि मतमैहिकसाधनम् । निर्निमित्तं फलं तेषां स्यादिहाकृतकर्मणाम् ॥ चित्रादीनां फलं तावत् क्षीणं प्राक्तनजन्मनि । नच स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते ॥ नैव ह्यन्यफलं कर्म साधयेन्नः फलान्तरम् । गौतमीयेऽपि तच्छेषः चित्रादेश्शेष इष्यते ॥ स्वाभाविकत्वे सिद्धे च कर्मानन्तरभाव्यपि । फलं क्रियानिमित्तत्वं न कथञ्चित्प्रपद्यते ॥ तत्र म्लेच्छादिवत्सर्वे कर्माकृत्वाऽपि वैदिकम् । फलं लभन्त इत्येवं नष्टा वेदप्रमाणता ॥ 8 अक्षपादीयसिद्धान्ते चित्राद्यमपि चैहिकम् । तत्कारिणां फलाभावः वैगुण्यादिति ते विदुः ॥ तेषामपि मते प्राग्वत् वेदानामप्रमाणता । फलं स्वाभाविकं यस्मात्स्यादिहाकृतकर्मणाम् ॥ आमुष्मिकं तत्स्वर्गादि वृष्ट्याद्यैहिकमिष्यते । पश्वाद्यनियतं ग्राह्यमसति प्रतिबन्धके ॥
२२२ | मानमेयरहस्यश्लोकवार्तिके
अभुक्तेन विरोधे तु प्रबलेन च कर्मणा । सर्वं चानियतं ग्राह्यं देशकालाद्यपेक्षया ॥ यच्चान्नादिफलं कर्म पूर्वजन्मन्यनुष्ठितम् । तत्तु स्वफलदानाय वृष्ट्याद्यपिच यच्छति ॥ ततश्चाकृतकारीरीकर्मणामपि सिद्धयति । वृष्ट्याद्यन्नादिनिष्पत्तिरिति शास्त्रीयपद्धतिः ॥ तस्माददृष्टाधीनत्वं सर्वेषां सुखदुःखयोः । नतु स्वाभाविकत्वं स्यादिति वैदिकदर्शनम् ॥ यदा सर्वमदृष्टस्य वशं विहत एव सः । स्वभाववादः, भूतानां परिणामोऽपि तद्वशः ॥ अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । ऊर्ध्वाधस्तिर्यगित्येवंगतयोऽपिहि तद्वशाः ॥ १ प्रळयेऽपि प्रमाणं तु सर्वोच्छेदात्मके नहि । स च युक्तो यथेदानीं भूतानां दृश्यते क्रमात् ॥ तस्मादद्यवदेवात्र सर्गप्रळयकल्पना । समस्तक्षयजन्मभ्यां न सिद्धयत्यप्रमाणिका ॥ कर्मान्तरनिरुद्धं हि फलं न स्यात्क्रियान्तरात् । सर्वेषां तु फलापेतं न स्थानमुपपद्यते ॥ ईश्वरेच्छा यदीष्येत सैव स्याल्लोककारणम् । ईश्वरेच्छावशित्वे हि निष्फला कर्मकल्पना ॥
अदृष्टसामर्थ्यम् न चानिमित्तया युक्तमुत्पत्तुं हीश्वरेच्छया । यत्तु तस्या निमित्तं स्यात्तद्भूतानां भविष्यति । सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि । प्रसिद्धेः, सन्निवेशांदेरेककारणता कुतः ॥ सर्गप्रळयविज्ञानं समस्तजगदाश्रयम् । स्वशरीरविदां पुंसां नाधिक्येनोपयुज्यते ॥ देहानित्यत्वधीमात्रात् स्वर्गमोक्षार्थगोचरा । प्रवृत्तिस्सिद्ध्यति यतः व्यर्था सर्गादिधीस्ततः 10 यस्मादवश्यंवक्तव्या प्रयोजनवदर्थता । स्वाध्यायविध्यधीतानां सर्वोपनिषदां ततः ॥ दैवप्रभावकथनार्थोऽयं सर्गादिरुच्यते । प्रधानं पौरुषं येषां तन्निरासकटाक्षतः ॥ सृष्टिकाले दैववशेनैव सर्वा प्रवर्तते । सृष्टिस्समस्तपुरुषकाराभावेऽपि केवलम् ॥ लयकाले तु पुरुषकारे सत्यपि सर्वशः । तद्दैवोपर्मादेवोपरमेत्सकलं जगत् ॥ धर्मानुष्ठान एवातः यतितव्यं कृतात्मभिः । इत्येतत्परमेष्टव्यं सृष्टिप्रलयकीर्तनम् ॥ भारतादीतिहासानां धर्मादौ वृत्तिरिष्यते । व्यवहारानादिवादीमीमांसकमतं त्विदम् ॥
224 मानमेयरहस्यश्लोकवार्तिके निर्विशेषविदां सृष्टिकथाफलमिदं मतम् । सर्वस्य ब्रह्मकार्यत्वे सर्वं ब्रह्माधितिष्ठति ॥ नेतिनेतिनिषेधेन निषिद्धमखिलं भवेत् । सृष्ट्याद्यकथयित्वैव निषेधे केवले कृते ॥ ब्रह्मानध्यस्तवस्तूनां नित्यानां सत्त्वशङ्कया । सर्वं ब्रह्मातिरिक्तं न प्रतिषिद्धं भवेदिति ॥ यच्चौपनिषदानां तु सविशेषविदां मतम् । निरूपितं प्रागित्थं तु दैवपौरुषनिर्णयः ॥ दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । पौरुषस्य त्वभावे हि दैवं नैव प्रसिद्ध्यति ॥ प्राग्दैहिकं पौरुषं हि दैवमित्युच्यते बुधैः । व्यज्यते तद्बहुफलोदयादप्यल्पयत्नतः ॥ केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ (49) शास्त्रसामर्थ्यम्. 1 यच्चात्र शास्त्रवैयर्थ्यचोद्यं किंचित्समाहितम् । तस्य प्रपञ्चो ज्ञातव्यः गीताशास्त्रनिरूपितः ॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ इत्यस्यायमभिप्रायः देहोऽधिष्ठानमुच्यते । जीवः कर्ताऽथ करणमिन्द्रियं चक्षुरादिकम् ॥ प्राणश्चेष्टा हि विविधा या क्रियाशक्तिरुच्यते । ईश्वरो दैवमुद्दिष्टं तत्र न्यायोऽवधार्यताम् ॥ दैवं दिष्टं भागधेयं दैवं कर्म पुराकृतम् । सत्येवं व्यवहारेऽपि दैवमत्रेश्वरो मतः ॥ नहि प्रागेव नष्टानां कर्मणामिह हेतुता । कर्मजन्यादृष्टरूपसंकल्पादप्यसौ वरम् ॥ सत्यंसत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥ स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् । अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ॥ इत्येवं भारते रामायणे चापि प्रयुज्यते । श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपिच ॥ नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः । सभापर्ववचस्त्वेवं अथ योगविदां वचः ॥ M.R. 29
226 मानमेयरहस्यश्लोकवार्तिके आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा । आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः ॥ स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते । दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥ तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम् । शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥ 2 ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् । स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥ उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः । स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु ॥ श्रुता परात्मायत्तेति तदायत्तैव कर्तृता । सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता ॥ अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत् । तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः ॥ बलिना ह्रियमाणेन न गन्तुमिह शक्यते । निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥ प्रबलेन निरुद्धस्य गमनं न विधीयते । यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥
शास्त्रसामर्थ्यम् नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते । चोद्यकाष्ठेयमखिलास्तिकैकान्तालम्बिनी ॥ निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः । निग्रहानुग्रहायर्ह इतीदं घटते कथम् ॥ 3 अपिचात्र पराधीनास्वापि सर्वप्रवृत्तिषु । कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥ शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः । परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥ अत्रेदमवधातव्यं यत्तावत्परमेशितुः । प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥ यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् । स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥ कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः । यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥ तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना । प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥ एतावतैव भगवानुदासीन इतीर्यते । प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥ सा चानुमन्तृता जीवकर्तृतां न निवारयेत् । किंतूत्तम्भातीति नातः शास्त्रवैयर्थ्यचोदना ॥
228 मानमेयरहस्यश्लोकवार्तिके
नैवानियोज्यताहेतुः कर्त्रन्तरसहायता । संभूयकार्येऽप्येकस्य दृश्यते हि नियोज्यता ॥ एवं प्रवृत्तिशक्तस्य चेच्छायामनिवार्यता । स्वतन्त्रताऽस्य सिद्धेति कर्तृत्वमपि सुस्थितम् ॥ 4 यत्त्वथज्ञानशक्त्यादौ करणे च कलेबरे । प्रदानं विषमं यच्चाकृत्यादावनिवारणम् ॥ यदप्यनुमतेर्दानं प्रत्यवायस्य सर्जनम् । तदप्यनादिप्राक्कर्म वैषम्याद्विषमं मतम् ॥ अकृत्यकारिणोऽपीशानुग्राह्यास्स्युर्यदीशितुः । शास्त्रमाज्ञात्मकं व्यर्थं सोऽपि स्यादव्यवस्थितः अपुंस्त्वमावहेच्चास्य दण्ड्यानामप्यदण्डने । न गुणायोवकल्पेत लोके दुष्टस्य शिक्षणम् ॥ यद्यप्यदृष्टवैषम्यात्प्रवृत्तिर्विषमा मता । तत्त्वदृष्टं शास्त्रपुरस्कारादृष्टादि साधयेत् ॥ तदप्येवं तत्र विधिनिषेधावसरो यथा । यतः प्रवृत्तिः शास्त्रोत्थबुद्ध्यादिकमपेक्षते ॥ यज्ञादिकारणं पूर्वमनेन सुकृतं कृतम् । इत्येतेनैव नेदानीं यज्ञनिष्पत्तिसंभवः ॥ नापि पापं केवलं वा पापमारभतेऽपितु । स्वबुद्ध्यैव निषेधातिवृत्त्या पापस्य कारणम् ॥
शास्त्रसामर्थ्यम् 229 ननुचादृष्टमूलत्वे विध्यानर्थक्यमुच्यते । शास्त्रं च सार्थकं सर्वैः परैरभ्युपगम्यते ॥ तस्माददृष्टमूलत्वं त्यक्तव्यमिति चोद्यते । तन्नैवं लौकिकविधिनिषेधेऽपि प्रसङ्गतः ॥ लोके प्रवृत्तिवैचित्र्यं स्यात्सामग्रीविशेषतः । किंवा गामानयेत्यादिनियोगेनेति चिन्त्यताम् ॥ नियोगस्सोऽथ सामग्रीमध्यान्तर्भावमर्हति । इतिचेत् वैदिकश्चापि नियोगस्तादृगिष्यताम् ॥ परित्यजाम इतिचेत् नियोगमपि लौकिकम् । हन्त संव्यवहारस्यासिद्ध्या व्युत्पत्त्यसंभवः ॥ लौकायतेनापि लीनं जगदान्ध्यं प्रसज्यते । तस्माददृष्टं शास्त्रं च नान्योन्यप्रतिबन्धकम् ॥ तस्मादिष्टऽदृष्टमूलशास्त्रवश्यदशान्वयात् । पुनस्तथातथा दृष्टसंपत्तिरुपपद्यते ॥ पुमर्थसाधनत्वेन प्रतीते स्वेच्छया पुमान् । प्रवर्तेतेति तादर्थ्यात् सावकाशाऽत्र चोदना ॥ इत्येवं शास्त्रवैयर्थ्यचोदनाक्षेपदूषणम् । तात्पर्यचन्द्रिकाग्रन्थविस्तृतस्यात्र संग्रहः ॥ एवं शास्त्रं शास्त्रजन्यादृष्टं वा बुद्धिपूर्वकम् । प्रवर्तयेदतः शास्त्रवैयर्थ्यं न प्रसज्यते ॥
230 मानमेयरहस्यश्लोकवार्तिके दैवाधीनं जगत्सर्वमिति तत्त्वविदां वचः । मयि सर्वाणि कर्माणीत्युक्तगीतार्थगोचरम् ॥ (50) कर्मवादः. 1 कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् । अविभुद्रव्यसंस्थं तत् हेतुर्योगवियोगयोः ॥ वेगस्यापीति सिद्धान्तमाहुर्भाट्टाश्च तार्किकाः । न संयोगादिविषयः चलतिप्रत्ययो यतः ॥ सर्वसंयोगधाराऽपि धरा न चलतीति धीः । नवा तरङ्गिणीतीरपाषाणश्चलतीति धीः ॥ भूकम्पादौ महोत्पाते ह्यचला चलतीति धीः । संयोगो वा विभागो वा न कश्चित्तत्र दृश्यते ॥ 2 प्राभाकरास्तु मन्यन्ते कर्म चैतदतीन्द्रियम् । सुसूक्ष्मो व्यापार एषः सर्वद्रव्यगतोऽपि च ॥ अनुमेयं हि संयोगाद्विभागाद्वाऽऽर्ककर्मवत् । अन्वयव्यतिरेकानुविधानं चक्षुरादिभिः ॥ लिङ्गस्य दर्शने क्षीणं, गमनं यच्च चाक्षुषम् । स च संयोग एव स्यात् संयोगस्सर्वसम्मतः ॥ तत्र कौमारिलास्त्वित्थमाक्षेपं संप्रचक्षते । गुरुर्गृहीतविषयमनुमानं प्रजल्पति ॥