मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 269, कुल 672 में से
संदर्भ में पढ़ेंशास्त्रसामर्थ्यम् नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते । चोद्यकाष्ठेयमखिलास्तिकैकान्तालम्बिनी ॥ निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः । निग्रहानुग्रहायर्ह इतीदं घटते कथम् ॥ 3 अपिचात्र पराधीनास्वापि सर्वप्रवृत्तिषु । कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥ शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः । परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥ अत्रेदमवधातव्यं यत्तावत्परमेशितुः । प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥ यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् । स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥ कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः । यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥ तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना । प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥ एतावतैव भगवानुदासीन इतीर्यते । प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥ सा चानुमन्तृता जीवकर्तृतां न निवारयेत् । किंतूत्तम्भातीति नातः शास्त्रवैयर्थ्यचोदना ॥