मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 268, कुल 672 में से
संदर्भ में पढ़ें226 मानमेयरहस्यश्लोकवार्तिके आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा । आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः ॥ स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते । दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥ तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम् । शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥ 2 ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् । स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥ उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः । स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु ॥ श्रुता परात्मायत्तेति तदायत्तैव कर्तृता । सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता ॥ अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत् । तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः ॥ बलिना ह्रियमाणेन न गन्तुमिह शक्यते । निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥ प्रबलेन निरुद्धस्य गमनं न विधीयते । यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥