मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
226 मानमेयरहस्यश्लोकवार्तिके आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा । आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः ॥ स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते । दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥ तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम् । शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥ 2 ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् । स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥ उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः । स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु ॥ श्रुता परात्मायत्तेति तदायत्तैव कर्तृता । सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता ॥ अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत् । तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः ॥ बलिना ह्रियमाणेन न गन्तुमिह शक्यते । निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥ प्रबलेन निरुद्धस्य गमनं न विधीयते । यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥
शास्त्रसामर्थ्यम् नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते । चोद्यकाष्ठेयमखिलास्तिकैकान्तालम्बिनी ॥ निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः । निग्रहानुग्रहायर्ह इतीदं घटते कथम् ॥ 3 अपिचात्र पराधीनास्वापि सर्वप्रवृत्तिषु । कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥ शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः । परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥ अत्रेदमवधातव्यं यत्तावत्परमेशितुः । प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥ यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् । स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥ कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः । यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥ तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना । प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥ एतावतैव भगवानुदासीन इतीर्यते । प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥ सा चानुमन्तृता जीवकर्तृतां न निवारयेत् । किंतूत्तम्भातीति नातः शास्त्रवैयर्थ्यचोदना ॥
228 मानमेयरहस्यश्लोकवार्तिके
नैवानियोज्यताहेतुः कर्त्रन्तरसहायता । संभूयकार्येऽप्येकस्य दृश्यते हि नियोज्यता ॥ एवं प्रवृत्तिशक्तस्य चेच्छायामनिवार्यता । स्वतन्त्रताऽस्य सिद्धेति कर्तृत्वमपि सुस्थितम् ॥ 4 यत्त्वथज्ञानशक्त्यादौ करणे च कलेबरे । प्रदानं विषमं यच्चाकृत्यादावनिवारणम् ॥ यदप्यनुमतेर्दानं प्रत्यवायस्य सर्जनम् । तदप्यनादिप्राक्कर्म वैषम्याद्विषमं मतम् ॥ अकृत्यकारिणोऽपीशानुग्राह्यास्स्युर्यदीशितुः । शास्त्रमाज्ञात्मकं व्यर्थं सोऽपि स्यादव्यवस्थितः अपुंस्त्वमावहेच्चास्य दण्ड्यानामप्यदण्डने । न गुणायोवकल्पेत लोके दुष्टस्य शिक्षणम् ॥ यद्यप्यदृष्टवैषम्यात्प्रवृत्तिर्विषमा मता । तत्त्वदृष्टं शास्त्रपुरस्कारादृष्टादि साधयेत् ॥ तदप्येवं तत्र विधिनिषेधावसरो यथा । यतः प्रवृत्तिः शास्त्रोत्थबुद्ध्यादिकमपेक्षते ॥ यज्ञादिकारणं पूर्वमनेन सुकृतं कृतम् । इत्येतेनैव नेदानीं यज्ञनिष्पत्तिसंभवः ॥ नापि पापं केवलं वा पापमारभतेऽपितु । स्वबुद्ध्यैव निषेधातिवृत्त्या पापस्य कारणम् ॥
शास्त्रसामर्थ्यम् 229 ननुचादृष्टमूलत्वे विध्यानर्थक्यमुच्यते । शास्त्रं च सार्थकं सर्वैः परैरभ्युपगम्यते ॥ तस्माददृष्टमूलत्वं त्यक्तव्यमिति चोद्यते । तन्नैवं लौकिकविधिनिषेधेऽपि प्रसङ्गतः ॥ लोके प्रवृत्तिवैचित्र्यं स्यात्सामग्रीविशेषतः । किंवा गामानयेत्यादिनियोगेनेति चिन्त्यताम् ॥ नियोगस्सोऽथ सामग्रीमध्यान्तर्भावमर्हति । इतिचेत् वैदिकश्चापि नियोगस्तादृगिष्यताम् ॥ परित्यजाम इतिचेत् नियोगमपि लौकिकम् । हन्त संव्यवहारस्यासिद्ध्या व्युत्पत्त्यसंभवः ॥ लौकायतेनापि लीनं जगदान्ध्यं प्रसज्यते । तस्माददृष्टं शास्त्रं च नान्योन्यप्रतिबन्धकम् ॥ तस्मादिष्टऽदृष्टमूलशास्त्रवश्यदशान्वयात् । पुनस्तथातथा दृष्टसंपत्तिरुपपद्यते ॥ पुमर्थसाधनत्वेन प्रतीते स्वेच्छया पुमान् । प्रवर्तेतेति तादर्थ्यात् सावकाशाऽत्र चोदना ॥ इत्येवं शास्त्रवैयर्थ्यचोदनाक्षेपदूषणम् । तात्पर्यचन्द्रिकाग्रन्थविस्तृतस्यात्र संग्रहः ॥ एवं शास्त्रं शास्त्रजन्यादृष्टं वा बुद्धिपूर्वकम् । प्रवर्तयेदतः शास्त्रवैयर्थ्यं न प्रसज्यते ॥
230 मानमेयरहस्यश्लोकवार्तिके दैवाधीनं जगत्सर्वमिति तत्त्वविदां वचः । मयि सर्वाणि कर्माणीत्युक्तगीतार्थगोचरम् ॥ (50) कर्मवादः. 1 कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् । अविभुद्रव्यसंस्थं तत् हेतुर्योगवियोगयोः ॥ वेगस्यापीति सिद्धान्तमाहुर्भाट्टाश्च तार्किकाः । न संयोगादिविषयः चलतिप्रत्ययो यतः ॥ सर्वसंयोगधाराऽपि धरा न चलतीति धीः । नवा तरङ्गिणीतीरपाषाणश्चलतीति धीः ॥ भूकम्पादौ महोत्पाते ह्यचला चलतीति धीः । संयोगो वा विभागो वा न कश्चित्तत्र दृश्यते ॥ 2 प्राभाकरास्तु मन्यन्ते कर्म चैतदतीन्द्रियम् । सुसूक्ष्मो व्यापार एषः सर्वद्रव्यगतोऽपि च ॥ अनुमेयं हि संयोगाद्विभागाद्वाऽऽर्ककर्मवत् । अन्वयव्यतिरेकानुविधानं चक्षुरादिभिः ॥ लिङ्गस्य दर्शने क्षीणं, गमनं यच्च चाक्षुषम् । स च संयोग एव स्यात् संयोगस्सर्वसम्मतः ॥ तत्र कौमारिलास्त्वित्थमाक्षेपं संप्रचक्षते । गुरुर्गृहीतविषयमनुमानं प्रजल्पति ॥
कर्मवादः 23 अनुमानेन कर्मादिसिद्धिमप्यभिवाञ्छति । 3 क्षणिकास्सर्वसंस्कारा अस्थिराणां कुतः क्रियाः । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत । ततोऽविरलदेशादेरुत्पादः कर्मलक्षणः ॥ संयोगादिस्स एवेति क्षणभङ्गोऽनुपद्रवः । इति युक्त्या सौगतास्तु कर्मैवापलपन्ति हि ॥ क्षणवादस्स दूष्यो हि प्रत्यक्षेणैव कर्मणा । कर्म चेदनुमेयं स्यात् जिता एव हि सौगताः ॥ संयोगेनान्यथासिद्धिः वक्तुं शक्येत कर्मणः । नित्यत्वे सर्वदा जन्म स्यात्संयोगविभागयोः ॥ अनित्यत्वेऽस्य यो हेतुस्तेनैव स्यात्तयोर्जनिः । तद्धेतुरेव तद्धेतुरिति न्यायोऽहि लौकिकः ॥ 4 अतएवहि काणादाः कर्मणः कर्मसाध्यताम् । स्वभाववादभङ्गाय धूत्वाऽऽहुर्गुणसाध्यताम् ॥ आत्मजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥ अदृष्टाधीनतां चाहुः ज्वलनोर्ध्वादिकर्मणाम् । एतेन चेतनायत्तं सर्वं कर्मेति साधितम् ॥ कृतेराख्यातवाच्यत्वस्थापनैतन्निबन्धना । व्यापारमात्रवादस्त सांख्यादिमितिमूलकः ॥
232 मानमेयरत्नश्लोकवार्तिके अदृष्टं दृष्टसामग्रीं पुरस्कृत्यैव कारकम् । इतीरयद्भिरप्यग्नेरूर्ध्वज्वलनमिष्यते ॥ कर्मणः कर्मसाध्यत्वं निषेधत्यपि जैमिनिः । अभिक्रामं जुहोतीति वाक्यस्यार्थनिरूपणे ॥ क्रियाकारकनिष्पाद्या कारकं मूर्त्तमिष्यते । कर्म चैतदमूर्त्तं स्यात् इति न्यायोऽत्र शाबरः ॥ क्रियैव कारकमिति क्षणप्रध्वंसवादिनाम् । सिद्धान्तोऽनेन वाक्येन संक्षेपेण कटाक्षितः ॥ कर्मणः कर्मसाध्यत्वं स्वीकृतं श्लोकवार्तिके । कर्मणः कर्मसाध्यत्वं नास्मत्पक्षे विरुध्यते ॥ अनात्मसमवेतस्य निमित्तं कर्म हीष्यते । इति वाक्याधिकरणपद्यमत्र निशम्यताम् ॥ निषिद्धं समवायित्वं स्वीकृता तु निमित्तता । इति रत्नाकरव्याख्या विरोधपरिहारिणी ॥ यद्यपि क्षणवादोऽयमेतेन प्रतिहन्यते । स्वभाववादावसरो निमित्तत्वेऽपि दुस्तरः ॥ 5 अत्र वेदान्तिनः केचिन्न्यायतत्त्वानुसारिणः । नैयायिकाश्च कतिचिन्न्यायभूषणयायिनः ॥ द्रव्ये गुणे वा विश्रान्तिं कर्मणो ये विजानते । तेषामाशयसारोऽयं संक्षेपादवधार्यताम् ॥
कर्मवादः 23. प्रत्यक्षं कर्म येऽप्याहुः नूनं तैरपि कर्मजात् । संयोगाद्वा विभागाद्वा निपुणं नान्यदीक्ष्यते ॥ चलतिप्रत्ययोऽपि स्यात्तावतैव मनीषिणाम् । चलत्यचलदित्याद्या धियोऽवस्थानिबन्धनाः ॥ कर्मादीनां गुणैर्द्रव्यैर्वाऽन्यथासिद्धिसंभवात् । द्रव्यं चाद्रव्यमित्येव विभागो मेयसंग्रहः ॥ एतावताऽपि भग्नास्ते भवन्ति क्षणभङ्गिनः । कर्मापह्नवसिद्धान्तो दुःस्थ एवेति च स्थितम् ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिरिति च श्लोकवार्तिके ॥ न प्रत्यक्षे इति ह्युक्तिश्शाबरी बुद्धिकर्मणी । प्रत्यक्षत्वे तयोस्स्याद्धि नित्यतेत्यपि तन्मतम् ॥ शब्दनित्यत्ववादे हि विस्तरेण निरूपितम् । उपालभन्ते चात्रेत्थमेतान् नैयायिकाः पुनः ॥ किंनाम शब्दनित्यत्वसमर्थनतृषातुरः । जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥ इत्येवं वादसंरम्भे विचित्रा धीमदुक्तयः । 6 अथ चात्रात्मसंबन्धिक्रियाचिन्ता निशम्यताम् ॥ साक्षाद्यद्यपि संबन्धो नात्मनो यज्ञसाधनैः । तथाऽपि लक्षणावृत्त्या शरीरद्वारको भवेत् ॥ M.R. 30
34 मानमेयरहस्यश्लोकवार्तिके प्रत्यक्षत्वं च देहस्थं भाक्तमात्मनि कल्पितम् । आत्मनः स्वर्गयानं वा शरीरस्योपचर्यते ॥ जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् । ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् ॥ निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः । ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् ॥ यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एवैकः क्रिया नः कणभोजिवत् ॥ नच स्वसमवेतैव कर्तृभिः क्रियते क्रिया । क्रिया धात्वर्थमात्रं स्यात् अन्याधारेऽपि कर्तृता ॥ सत्ताज्ञानादिरूपाणां कर्ता तावत्स्वयं पुमान् । योऽपि भूतपरिस्पन्दः तत्राधिष्ठानतो भवेत् ॥ तदुद्देशप्रवृत्तेश्च याया देहेन्द्रियैः क्रिया । क्रियते पुरुषेणैव सासा सर्वा कृतोच्यते ॥ नैव ह्येषां प्रवृत्तिस्स्यात्पुरुषेणापरिग्रहे । अस्वातन्त्र्यादतो नैषां परिस्पन्देऽपि कर्तृता ॥ तत्कर्मोपार्जितैश्चैतैः क्रियमाणेषु कर्मसु । कर्तृता यजमानानामृत्विक्परशुकर्मवत् ॥ यथा परिक्रयान्नानाहत्विग्द्वारा क्रियोच्यते । गमनादिविधेस्तद्वत् भूतद्वारत्वमाश्रितम् ॥
नच सर्वत्र तुल्यंत्वं स्यात्प्रयोजककर्मणाम् । चलनेन ह्यसिं योद्धा प्रयुङ्क्ते छेदनं प्रति ॥ सेनापतिस्तु वाचैव भृत्यानां विनियोजकः । राजा सन्निधिमात्रेण विनियुङ्क्ते कदाचन ॥ तस्मादचलतोऽपि स्यात् चलने कर्तृताऽऽत्मनः । यथैवाभिद्यमानस्य देवदत्तस्य भेत्तृता ॥ तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत् । तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥ शक्तिः कार्यानुमेयत्वात् यद्गतैवोपयुज्यते । तत्रैव साऽभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपिवा ॥ आत्मैव चाश्रयस्तस्य क्रियाऽप्यत्रैव च स्थिता । आत्मवादे स्थितं ह्येतत् कर्तृत्वं सर्वकर्मसु ॥ यदि स्वसमवैतैव शक्तिरिष्येत कर्मणाम् । तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥ प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥ कर्मजन्यो हिं संस्कारः पुंसो बुद्ध्यादिवद्गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥
36 मानमेयरहस्यश्लोकवार्तिके एवं कर्मविचारेण नास्तिक्यं परिहीयते । तस्मान्निःश्रेयसावाप्तिः तत्त्वज्ञानाद्धि सूच्यते ॥ (51) जातिवादः. 1 विकल्पविभ्रमो जातिरिति केचित्प्रचक्षते । उपाधिभेदभिन्ना सा महासत्तेति केचन ॥ एके सतीमभिन्नां तामाश्रयेभ्यो विजानते । अभिन्नामपि तामेतामनुमेयां विदुः परे ॥ अपोहलक्षणां केचित्केचित्सारूप्यलक्षणाम् । स्वासाधारणरूपां तामन्ये संस्थानलक्षणाम् ॥ एकार्थकारितामेके विवादा बहवोऽत्र हि । संग्रहो वचसां तेषां पूर्वेषामवगम्यताम् ॥ अर्थक्रियासु नित्यस्य ह्यसामर्थ्यं स्फुटं ततः । जनकत्वस्य चाभावाद्विषयत्वाद्यसंभवः ॥ इति बुद्धिविरोधेन विकल्पो जातिरुच्यते । तथाऽवयविनोऽभावे निराधारा कथं नु सा । अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतः स्थानात् वृत्तिरित्यतियुक्तता ॥ यत्रासौ वर्तते भावः तेन सम्बध्यते न तु । तद्देशिनं च व्याप्नोति किमप्येतन्महाद्भुतम् ॥
जातिवादः 237 नायाति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पुनराधारमहो व्यसनसंततिः ॥ परतन्त्रैव सर्वत्र स्वात्मानं लब्धुमर्हति । अतो वृत्तिविरोधेन विकल्पो नैव संशयः ॥ पिण्डे सामान्यमेकत्र यदि कात्स्न्येन वर्तते । तत्रैवास्य समाप्तत्वान्न स्यात्पिण्डान्तरे ग्रहः ॥ एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित् । समग्राऽस्तीति, गोबुद्धिः प्रतिपिण्डं कथं भवेत् ॥ पृथक्त्वे व्यक्तितो जातेः दृश्येत पृथगेव सा । अभेदे व्यक्तिमात्रं स्यात् द्वेधा चेन्न विरोधतः ॥ जात्याद्यर्थान्तरं यस्मादतद्रूपेऽपि वस्तुनि । भवत्यध्यस्य धीः तस्मान्मृगतृष्णादिभिस्समा ॥ तस्माद्यतोयतोऽर्थानां व्यावॄत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ 2 अत्र वैशेषिकादीनामभिप्रायोऽवगम्यताम् । प्रत्यक्षबलसिद्धस्य सामान्यस्य कुतर्कतः ॥ न शक्यो निह्नवः कर्तुं प्रत्यक्षं जयि सर्वतः । नहिं दृष्टेऽनुपपन्नं नामेत्यपिच लोकवाक् ॥ सर्वा सर्वगता जातिरिति तावदुपैयते । सर्वत्राग्रहणं तस्याः व्यञ्जकव्यक्त्यसन्निधेः ॥
३८ मानमेयरहस्यश्लोकवार्तिके अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम् । तस्मात्सकृदभिव्यक्ता नान्यदाऽपि प्रतीयते ॥ व्यक्तिसर्वगतत्वेऽपि सयूथ्यैः कैश्चिदाश्रिते । भविष्यत्यद्यजातायां गवि गोधीस्तथा ग्रहात् ॥ जायमानैव हि व्यक्तिः जायते प्रतियोगिनी । एक एव हि कालोऽस्याः जातेस्संबन्धजन्मनोः ॥ नच जातेः पुराऽस्तित्वं नच संक्रान्तिरन्यतः । किंतु स्वहेतोस्सा व्यक्तिः तादृश्येवोपजायते ॥ वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणादिनी। ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डरः ॥ तस्माद्वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम् । चोद्यचुश्रुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम् ॥ केचिन्नैयायिकाः जातिं नेच्छन्ति गुणकर्मणोः । द्रव्यजात्यैव हि तयोः जातिव्यवहृतिं विदुः ॥ त्रिषु सत्तां केचिदाहुः सैव नास्तीति केचन । मानयोगार्हता सा स्यात् भावत्वं वेति ते विदुः॥ अनुमानं तु सामान्यापेक्षं सामान्यनिह्नवे । नालमित्यसमीक्ष्यैव वृथा कण्ठो विशोष्यते ॥ ३ अथ प्रभाकरगुरोस्सिद्धान्तोऽत्र प्रकाश्यते । जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगोचरा ॥
जातिवादः 239 पूर्वाकारावमर्शेन ह्यनुवृत्तिमती तु सा । यो नानाव्यक्तिसंबन्धः साऽनुवृत्तिरितीर्यते ॥ तत्सामान्यं विशेषश्च बुद्धयपेक्षमिति स्मृतिः । इयान्विशेषशिष्टांशः वैशेषिकनये स्थितः ॥ 4 जातिं व्यक्तिगतां नित्यां व्यक्तितादात्म्यशालिनीम्। प्रत्यक्षगम्यां सर्वां तामाहुः कौमारिलाः पुनः ॥ सत्ता पदार्थमात्रे स्यान्महासामान्यमुच्यते । द्रव्यत्वब्राह्मणत्वादि सामान्यं स्यादवान्तरम् ॥ महासामान्यमपरे नैवेच्छन्त्यनवस्थितेः । पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि ॥ जातिमेवाकृतिं प्राहुः व्यक्तिराक्रियते यया । सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥ सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका । जायते द्वयात्मकत्वेन विना सा च न सिद्ध्यति ॥ नचाप्यन्यतरा भ्रान्तिरूपचारेण गम्यते । दृढत्वात्सर्वथा बुद्धेः भ्रान्तिस्तद्भ्रान्तिवादिनाम् ॥ निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच्च विशेषास्तद्वदेवहि ॥ विशेषतो हि जिज्ञासा ज्ञाते सामान्यतो मता । सामान्यस्यानुपगमे प्रश्नोत्तरपराहतिः ॥
40 मानमेयरहस्य श्लोकवार्तिके स्वाभाविकश्च संबन्धो जातिव्यक्त्योर्न हेतुमान् । तेनैतस्य प्रसिद्धयर्थं नान्यसामान्यमिष्यते ॥ विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद्भवम् ॥ तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥ एकानेकत्वमेकस्य तथाऽन्यानन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ॥ विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्यानन्यविज्ञाते विशेषे नैकवृत्तिता ॥ सामान्यानन्यवृत्तित्वं विशेषात्मैकभावतः । तेन नात्यन्ततो भेदस्स्यात्सामान्यविशेषयोः ॥ या चावयवशो वृत्तिः स्रक्सूत्रादिषु दृश्यते । भूतकण्ठगुणोदेश्च प्रतिपिण्डं समाप्तिः ॥ तत्रावयवयोगित्वमविभुत्वं च कारणम् । आकृतेस्तदभावेन न प्रसक्तमदोद्वयम् ॥ नच द्वैविध्यमेवेति वृत्तेरस्ति नियामकम् । त्रैविध्यमपि दृष्टत्वात्संभवेत् द्वे विधे यथा ॥ दीर्घह्रस्वत्ववच्चात्र व्यपेक्षाभेदतो भवेत् । अविरोध इति ज्ञात्वा प्रतिपत्तिर्निरूप्यताम् ॥
जातिवादः 241 5 शाब्दिकास्तां विदुस्सत्तां तदुक्तिरवधार्यताम् । संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ॥ जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ॥ सा नित्या सा महानात्मा तामाहुस्त्वतलादयः । अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता॥ कैश्चिद्व्यक्तय एवास्याः ध्वनित्वेन प्रकल्पिताः । सत्यासत्यौ तु यौ भावौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिः असत्या व्यक्तयो मताः । तद्ब्रह्म स च शब्दः स्यात् सकलं तदधिष्ठितम् ॥ आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् । सकृदाख्याननिर्ग्राह्या गोत्रं च चरणैस्सह ॥ प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ 6 अभाषत च संस्थानजातिपक्षं पतञ्जलिः । जातिनित्यत्वपक्षोक्तिरन्वारुह्येति नीयताम् ॥ संस्थानजातिसिद्धान्तसारांशोऽत्रावगम्यताम् । संस्थानं चाप्यवयवव्यूहस्सास्नादिलक्षणः ॥ जातेस्तु०व्यञ्जकं यत्स्यात् जातितस्तस्य संग्रहे । जातिमालाऽनवस्थाऽतः संस्थानं जातिरिष्यते ॥ M.R. 31
242 मानमेयरहस्यश्लोकवार्तिके यद्यप्येकैकसंस्थं तत्संस्थानं गळकम्बळम् । स्वभावतः तथाऽप्येतत्सप्रतिद्वन्द्विकं मिथः ॥ प्रामाणिकं स्वरूपं यत् स स्वभाव इतीर्यते । तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥ सन्निवेशाः स्वभावेन नियतप्रतियोगिकाः । अन्योन्यसादृश्यरूपाः मिथः स्मारकतावशात् एकस्मृतिसमारूढाः एकबुद्धिनियामकाः । सादृश्यसामान्यशब्दावेकार्थाविति निर्णयः ॥ उपाधिसंकरन्यायादवस्थासंकरो मतः । भ्रमणस्यन्दनत्वाद्यमेकस्मिन् गमने मतम् ॥ अन्योन्यसप्रतिद्वन्दि रूपं सादृश्यमुच्यते । तदेवानुगतज्ञप्तिहेतुः जातिर्न चाधिका ॥ कथ्यते यैस्तु सादृश्यं संस्थानादिविलक्षणम् । गुरुत्वं जातिगुप्तौ च धृतं तैर्जातिगुप्तिवत् ॥ जातिखण्डनयुक्तीनां नावकाशोऽत्र लभ्यते । प्रायः परीक्षकाणामप्येतदेव मनोरमम् ॥ 7 तिर्यगूर्ध्वत्वभेदेन द्विविधं त्वार्हता विदुः । तुल्या परिणतिर्यत्र प्रतिव्यक्ति प्रदृश्यते ॥ तत्तिर्यग्यद्धि शबलाशावलेयादिवस्तुषु । गोत्वादिकं तथाऽश्वत्वनरत्वामरतादिकम् ॥
पूर्वापरपरीणामसाधारणमवस्थितम् । द्रव्यं तदूर्ध्वताख्यं स्यात् कटकादिषु काञ्चनम् ॥ तथौपनिषदाः प्रायः तार्किकं वाऽथ वैदिकम् । पन्थानमाश्रिताः किंचित्किंचिद्भेदं समाश्रिताः ॥ 8 अथच ब्राह्मणत्वादिजातिव्यवहृतौ मताः । प्राचां ग्रन्थकृतां मार्गाः निशम्यन्तां समाहृताः ॥ अनादाविह संसारे दुर्वारे मकरध्वजे । कुले च कामिनीमूले का जातिपरिकल्पना ॥ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृङ्क्तामित्यप्यस्य निदर्शनम् ॥ अब्राह्मणो ब्राह्मणस्स्यात्प्रवरस्यानुमन्त्रणात् । इतिश्रुत्यर्थजिज्ञासा शाबरादिषु विस्तृता ॥ न संस्थानं नापि धातुः न भयाद्यं न चौषधम् । न वृत्तिः नापि चाचारः किंतु संकेत एव सः ॥ इत्यादीनि च वाक्यानि जातिविप्लववादिनाम् । विश्रुतान्येव सर्वत्र विज्ञेयोऽन्यत्र विस्तरः ॥ 9 श्रुतिस्मृतिनिबन्धेषु तद्व्याख्यानेषु यच्छ्रुतम् । भाष्यादिषु च यच्चोक्तं तत्सारांशोऽयमुच्यते ॥ जातिनाम्नोऽतिरिक्तस्य स्वीकर्तारस्तु वस्तुनः । ब्राह्मणत्वादिकां जातिं नरत्वावान्तरं विदुः ॥
244 मानमेयरहस्यश्लोकवार्तिके
तत्र क्वचिद्ब्राह्मणादिशब्दानां गुणवाचिताम् । वृत्तादिवाचितां चापि मन्वते तत्त्वदर्शिनः ॥ नञ्सूत्रेऽतो महाभाष्ये गुणसंदोहवर्तिनः । ब्राह्मणाया अमी शब्दाः क्वचिदंशेष्वितीरितम् ॥ जात्यनभ्युपगन्तारः व्यवहारस्य गोचरम् । विदुश्शुद्धकुलोत्पत्तिं जातिजन्मादिशब्दिताम् ॥ सैव संततिसंतानकुलशब्दादिशब्दिता । सर्ववर्णेषु तुल्यास्वित्यादिस्मृतिवचोबलात् ॥ तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्कटम् । इत्याश्वमेधिकस्मृत्या सत्त्वाद्यं केचिदभ्यधुः ॥ सन्निवेशसमानत्वेऽप्यारणेयादिवह्निषु । क्षीरभेदादिकेऽप्यस्ति शक्तिभेदास्तथाऽत्र हि ॥ परेऽदृष्टविशेषं तमात्मस्थमनुजानते । तदभिव्यञ्जिकां शुद्धकुलोत्पत्तिं प्रचक्षते ॥ ब्राह्मणो जायते ह्येष यो यज्ञाज्जायते त्विति । ब्राह्मणत्वं कर्मरूपमिति शातपथी श्रुतिः ॥ यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः । इति पाद्मे पाञ्चरात्रे तन्निमित्तमनूदितम् ॥ मुखबाहूरुपज्जत्वं पुंसूक्तोक्तं विदुः परे । तत्र प्रभानुरोधेन तद्रूपणमितीतरे ॥
जातिवादः मनूनां सर्गमकरोन्मुखबाहूरुपादतः । एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥ महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥ 10 प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया । घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥ सहकार्यत्रोपदेशः स पारम्परिको मतः । समूहलेख्यानि परंपराऽविस्मृतिकारणम् ॥ नहि तत्करणं लोके वेदे वा किंचिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ तथाच संततिस्मृत्याऽनुगृहीतेन चक्षुषा । विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥ तथाच दृश्यते नानासहकारिव्यपेक्षया । चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥ सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् । तैलाद्धृतं विलीनं च गन्धेन तु रसेन वा ॥ भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते । अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥ संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः । क्वचिदाचारतश्चापि सम्यगाज्ञाऽनुपालितात् ॥