मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 266, कुल 672 में से
संदर्भ में पढ़ें224 मानमेयरहस्यश्लोकवार्तिके निर्विशेषविदां सृष्टिकथाफलमिदं मतम् । सर्वस्य ब्रह्मकार्यत्वे सर्वं ब्रह्माधितिष्ठति ॥ नेतिनेतिनिषेधेन निषिद्धमखिलं भवेत् । सृष्ट्याद्यकथयित्वैव निषेधे केवले कृते ॥ ब्रह्मानध्यस्तवस्तूनां नित्यानां सत्त्वशङ्कया । सर्वं ब्रह्मातिरिक्तं न प्रतिषिद्धं भवेदिति ॥ यच्चौपनिषदानां तु सविशेषविदां मतम् । निरूपितं प्रागित्थं तु दैवपौरुषनिर्णयः ॥ दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । पौरुषस्य त्वभावे हि दैवं नैव प्रसिद्ध्यति ॥ प्राग्दैहिकं पौरुषं हि दैवमित्युच्यते बुधैः । व्यज्यते तद्बहुफलोदयादप्यल्पयत्नतः ॥ केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ (49) शास्त्रसामर्थ्यम्. 1 यच्चात्र शास्त्रवैयर्थ्यचोद्यं किंचित्समाहितम् । तस्य प्रपञ्चो ज्ञातव्यः गीताशास्त्रनिरूपितः ॥