भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 265, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 265

अदृष्टसामर्थ्यम् न चानिमित्तया युक्तमुत्पत्तुं हीश्वरेच्छया । यत्तु तस्या निमित्तं स्यात्तद्भूतानां भविष्यति । सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि । प्रसिद्धेः, सन्निवेशांदेरेककारणता कुतः ॥ सर्गप्रळयविज्ञानं समस्तजगदाश्रयम् । स्वशरीरविदां पुंसां नाधिक्येनोपयुज्यते ॥ देहानित्यत्वधीमात्रात् स्वर्गमोक्षार्थगोचरा । प्रवृत्तिस्सिद्ध्यति यतः व्यर्था सर्गादिधीस्ततः 10 यस्मादवश्यंवक्तव्या प्रयोजनवदर्थता । स्वाध्यायविध्यधीतानां सर्वोपनिषदां ततः ॥ दैवप्रभावकथनार्थोऽयं सर्गादिरुच्यते । प्रधानं पौरुषं येषां तन्निरासकटाक्षतः ॥ सृष्टिकाले दैववशेनैव सर्वा प्रवर्तते । सृष्टिस्समस्तपुरुषकाराभावेऽपि केवलम् ॥ लयकाले तु पुरुषकारे सत्यपि सर्वशः । तद्दैवोपर्मादेवोपरमेत्सकलं जगत् ॥ धर्मानुष्ठान एवातः यतितव्यं कृतात्मभिः । इत्येतत्परमेष्टव्यं सृष्टिप्रलयकीर्तनम् ॥ भारतादीतिहासानां धर्मादौ वृत्तिरिष्यते । व्यवहारानादिवादीमीमांसकमतं त्विदम् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 265, कुल 672 में से · BharatKosha