मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 452, कुल 672 में से
संदर्भ में पढ़ेंप्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः । एषैव गौरसेतिबुद्धिरनुमाऽन्योन्यहस्तवत् ॥ यद्वाऽऽप्तवाक्याद्युत्पत्तिश्चिह्नोन्नीतानिमित्ततः । ३ अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना ॥ दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् । असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम् ॥ गवयस्थितसादृश्यदर्शनं करणं भवेत् । फलं गोगतसादृश्यज्ञानमित्यवधार्यते ॥ तस्माद्यत्स्मर्यते तत् स्यात्साहश्येन विशेषितम् प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥ प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ तथोपमानप्रामाण्यं विदुषां हृदयङ्गमम् । आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥ तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः । सौर्यभावनया ग्राह्य इत्यस्त्येतत्प्रयोजनम् ॥ तथा प्रतिनिधिद्रव्यसंग्रहोऽपि क्वचिद्भवेत् । नचेदमनुमानादिनेति मानं पृथक्ततः ॥