मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 455, कुल 672 में से
संदर्भ में पढ़ेंअर्थापत्तिः 413 जीवनं किल विज्ञातं वेश्मवर्तितया पुरा । तस्माज्जीवनसंदेहः भवेद्वेश्मन्यदर्शनात् ॥ संदिग्धं जीवनं त्वेतत् बहिर्भावस्य बोधकम् । अर्थापत्तेः प्रभावोऽयं यत्सन्दिग्धोऽपि बोधयेत् ॥ एवं जीवनसंदेहे स्यात्संदिग्धविशेषणः । हेतुरित्यनुमानत्वनिरासः सुकरो मतः ॥ तत्संदेहव्युदासाय कल्पना या प्रवर्तते । संदेहापादकादर्थादर्थापत्तिरसौ मता ॥ दृष्टान्तदृष्टनियमस्मरणे त्वनुमा मता । प्रतिघातालोचने स्यादर्थापत्तिर्विलक्षणा ॥ विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् । नयता दृष्टमर्थं या साऽर्थापत्तिस्तु कल्पना ॥ 3 अर्थापत्तेस्तु नैवेह प्रमाणान्तरतेष्यते । व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥ सत्त्वभोजनयोर्व्याप्ये स्यातां जीवनपीनते । जीवित्वे च गृहासत्त्वं बहिसत्त्वं प्रसाधयेत् ॥ पीनत्वे च दिवाऽभुक्तिः रात्रिभोजनसाधनम् । इति नैयायिकाः प्राहुः इतरेऽपि तदध्वगाः ॥ अनियम्यस्य नायुक्तिः नानियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥