मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 456, कुल 672 में से
संदर्भ में पढ़ेंइदमादित्येन पद्यं तस्य चार्थोऽयमुच्यते । व्याप्यमेवोपपाद्यं स्यात् व्यापकश्चोपपादकः ॥ विरोधे नैव मानं स्यात् अनुमानेऽपि सा भवेत् विस्तरो न्यायकुसुमाञ्जल्यादौ वीक्ष्यतां बुधैः । 4 यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये । शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥ पीनो दिवा च नात्तीति सांकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ तामर्थगोचरां केचिदपरे शब्दगोचराम् । कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥ प्रायशश्चानया वेदे व्यवहारः व्यवस्थितः । सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥ वह्निसंसर्गतो दाहस्यान्यथाऽनुपपत्तितः । क्लृप्तिर्दहनशक्तेस्तु दृष्टार्थापत्तिरुच्यते ॥ प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितोऽधिका । श्रुतार्थापत्तिरेष्टव्या प्रमेयग्राहिणी परा ॥ 5 प्राभाकरास्त्विमं भेदं न विवक्षन्ति तद्यथा । अर्थं बुद्ध्वा शब्दक्लृप्तिरिति सर्वत्र विश्रुता ॥ केवलं द्वारमित्युक्ते पिधेहीति न कल्प्यते । किंतु क्लृप्तिः पिधानस्य तदर्थस्यैव लाघवात् ॥