मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 457, कुल 672 में से
संदर्भ में पढ़ेंअतएवच शब्दस्य नाध्याहारमिमे विदुः । भाट्टा नैयायिकाश्चापि शब्दाध्याहारवादिनः ॥ पुष्पेभ्य इति शुद्धोक्तौ स्पृह्यार्थो यदि कल्प्यते । चतुर्थ्यनुपपत्तिस्स्यात् शब्दस्तदुपपादकः ॥ अर्थाध्याहारपक्षे तु कार्यं वेदार्थ इष्यते । स एव धर्मः वेदैकगम्यता न विरोत्स्यते ॥ द्रव्यक्रियागुणादीनां धर्मत्वं ये विदुर्बुधाः । अन्यथाऽनुपपत्त्या हि तेषां वेदस्य कल्पना ॥ लौकिकोऽलौकिकश्चेति यथा शब्दो द्विधा मतः । लौकिक्यलौकिकी चेति श्रुतार्थापत्तिरप्यसौ ॥ (85) अनुपलब्धिः. 1 प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि। तत्र तृतीयपादेनानुपलब्धिर्विवक्षिता । तुरीयेन तु पादेनाभावबुद्धिर्विवक्षिता ॥ प्रमायाः करणत्वे तु फलं हानादिबुद्धयः । इति न्यायोऽभ्युपेतव्य इति वार्तिककृन्मनः ॥ अथ तस्यैव विवृतिः सम्प्रदायप्रवर्तकैः । प्रकाशितो लिख्यतेऽत्र पुनः वैशद्यसिद्धये ॥