मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 459, कुल 672 में से
संदर्भ में पढ़ेंअनुपलब्धिः 4 3 इति मीमांसकाः प्राहुः अत्र नैयायिका जगुः । अभावः प्रत्यक्ष इति सर्वानुभवसाक्षिकः ॥ येनेन्द्रियेण या व्यक्तिः गृह्यते तेन तद्गता । जातिश्च तदभावश्च गृह्येते इति निर्णयः ॥ विशेषणतया सन्निकर्षेणैष प्रतीयते । सां हि स्वरूपसंबन्धः न च ज्ञाननिरूपिता ॥ स्याद्योग्यानुपलब्धिश्च करणे सहकारिणी । प्रतियोग्युपलम्भे चाभावो नैवोपलभ्यते ॥ यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते । तादृशप्रतियोगित्वं योग्यताऽनुपलब्धिगा ॥ तस्मात्तमसि कुम्भादेरभावो नोपलभ्यते । तत्र कुम्भोपलब्धिस्तु प्रसङ्गं नैव चार्हति ॥ तस्मादनुपलब्धिस्तु न मानान्तरमिष्यते । अपिचानुपलम्भस्याज्ञातस्य यदि हेतुता ॥ ज्ञानाकरणकत्वेन प्रत्यक्षत्वमिहाक्षतम् । यदि ज्ञातस्य हेतुत्वं तत्रापि तदपेक्षया ॥ दुरुद्धराऽनवस्था स्यात् साऽपि चाभावलक्षणा । भावान्तराभाववादेऽनुपलब्धिः न विद्यते ॥ स्वरूपेण पुनर्जाने भावरूपेण वेद्यते । प्रतियोगिस्पर्शितायां अभावत्वेन तद्ग्रहः ॥ M.R. 53