मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 460, कुल 672 में से
संदर्भ में पढ़ें4 दृश्यसत्ता भवेद्व्याप्या दर्शनं व्यापकं मतम् । व्यापकानुपलब्ध्यैव व्याप्याभावोऽवसीयते ॥ लिङ्गेनानुपलब्ध्यैव ह्यभावस्य गतार्थता । इति बौद्धाः तन्न युक्तं लिङ्गज्ञानानवस्थितेः ॥ अभिप्रायस्सौगतानां तेषामेषोऽवधार्यताम् । यो न्यायमञ्जरीन्यायरत्नाकरविशोधितः ॥ दृश्यं सद्यत्र यत्किंचिद्वस्तु नैवोपलभ्यते । नास्ति तद्वस्तु तत्रेति बुद्धिसत्त्वे पुमानिव ॥ न दृश्यते चात्र देशे दृश्योऽपि कलशस्त्विति । स्वभावहेतुरनुपलब्धिः स्यात्प्रतिषेधकः ॥ यैवैकज्ञानसंसर्गिवस्त्वन्यतरगोचरा । धीस्सैवैकतरस्येष्टाऽनुपलब्ध्यभिधा ततः ॥ उपलब्धेरभावोऽन्यो नोपलब्ध्यतिरेकतः । तस्मान्न तस्यानुपलब्ध्यन्तरापेक्षयाऽस्थितिः ॥ योऽसावन्यतरस्योपलम्भः स स्वयमेवहि । संवेद्य इत्यपि ततो नैव चात्रानवस्थितिः ॥ नास्तीत्यादिव्यवहृतियोग्यताऽभावशब्दिता । तादात्म्यमेव संबन्धः तया तस्या इति स्थिति ॥ बहुधाऽनुपलब्धिर्हि तीर्थकृद्भिर्निरूपिता । एकादशविधामेके परे षोडशधा विदुः ॥