भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 461, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 461

व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता । व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते ॥ या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा । पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः ॥ गुणत्वस्योपलम्भेन पृथिवीत्वनिषेधधीः । तया संपद्यत इति साऽपि सर्वत्र सम्मता ॥ 5 अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः । अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते ॥ त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन् । कथं तुच्छस्वरूपस्य कारणापेक्षितां वदेत् ॥ अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना । तस्मादनुपलम्भोऽस्ति, प्रमाणं वाऽथवा न सः अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते । किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये ॥ दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत् । अभावेन विशिष्टं तं भावं यद्भूतलादिकम् ॥ नच भिन्नेन्द्रियग्राह्यं किंचिदस्त्यनुरागकृत् । नहि लाक्षानुरक्तेऽपि स्फटिके धीस्त्वगादिभिः इत्यादिवचनं तु स्यात्संबन्धाग्रहगोचरम् । प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः ॥