मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 545, कुल 672 में से
संदर्भ में पढ़ेंकार्यवाक्यार्थः 503 इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । स कालेनेह महता योगो नष्टः पुरातनः ॥ कर्मण्येवाधिकारस्ते कुरु कर्मैव तत्पुनः । यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ॥ अन्यत्र विस्तरस्तस्य द्रष्टव्योऽस्माभिरीरितः । अत्रापिच पुरः स्पष्टः फलकाण्डे भविष्यति ॥ (103) कार्यवाक्यार्थः. 1 प्रभाकरगुरूणान्तु कार्यवाक्यार्थवादिनाम् । वाक्यार्थसंग्रह्रसोऽयं विविक्तप्रतिपत्तये ॥ आस्तां तावत्क्रिया लोके गमनागमनादिका । अन्ततस्तनपानादितृप्तिकारिण्यपि क्रिया ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत्कदाऽपि लोकेऽत्र प्रवृत्तिर्न भविष्यति ॥ पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः । विपरीतं त्वकर्तव्यमिति तद्विषये मतिः ॥ इत्याहुर्मण्डनाचार्याः गुरुभिस्तन्नचेष्यते । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥