मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 546, कुल 672 में से
संदर्भ में पढ़ें504 मानमेयरहस्यश्लोकवार्तिके कारणत्वं फलोत्पादे भिद्येते ते परस्परम् । किंच स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥ फलसाधनता तत्र कारणं तेन कार्यता । तद्भावभाविनी नित्यं तदात्मैव प्रतीयते ॥ 2 कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि । व्यवहारात एवाहुः व्युत्पत्तिं प्रेरकात्मनि ॥ शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापोद्वापभेदेन तथा कार्ये लिङादयः ॥ कार्यमेव हि कर्तॄणां ज्यायस्समकनीयसाम् । भेदात्प्रैषामन्त्रणाध्येषणादिव्यपदेशभाक् ॥ कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते । तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥ एवं कार्यात्मकेऽप्यर्थे व्युत्पद्यन्ते लिङादयः । तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥ 3 यागानुष्ठानतः कार्यमात्मानं लब्धुमर्हति । नच कर्त्रा विना तस्यानुष्ठानमुपपद्यते ॥ न विना चाधिकारेण कर्तुर्लाभः क्वचिन्मतः । नियोज्यमन्तरा क्वापि नाधिकारः प्रसिद्ध्यति । नकदाप्यविशिष्टोऽत्र नियोज्यो ह्यवकल्पते । एवं विशेषणतया स्वर्गस्तत्रावकल्पते ॥