भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 569, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 569

त्रिवर्गवादः 527 अधिकारानुरोधेन बादरायणयोगिनः । विकल्पमिच्छया प्राहुः पक्षो वैकल्पिकस्तु सः ॥ समुच्चयं ह्याश्रमाणां मन्वाद्यास्स्मृतिकारिणः । प्राहुस्समुच्चयस्तेषां पक्ष इत्यवधार्यते ॥ तद्वद्धर्मार्थकामादिपुरुषार्थचतुष्टये । अर्थो लौकायतैः प्रोक्तः कामश्शाक्तस्त्वनन्तरः ॥ जरन्मीमांसकाभीष्टः मोक्षस्सौगतसम्मतः । अधिकारानुरोधेन विकल्पं केचिदूचिरे ॥ समुच्चयस्स्वीकृतोऽस्ति स्पष्टं स्मृतिपुराणयोः । परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ॥ धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेवच । असाधुभ्योऽर्थमादाय साधुभ्यस्संप्रयच्छति ॥ धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । इति मन्वादिवचनात्कलितावर्थकामयोः ॥ आद्यन्तयोः धर्ममोक्षाविति शास्त्ररहःस्थितिः । अर्थशास्त्रे स्तेयशास्त्रे चार्थतत्त्वं प्रपञ्चितम् ॥ 5 अथ कामरहस्यं तु किंचिदत्र प्रकाश्यते । रागो द्वेषो मोह एते यान्तिचेदुत्कटां स्थितिम् ॥ कामः क्रोधो लोभ इति व्याह्रियन्ते क्रमादमी । कामस्येच्छासंज्ञकस्यावस्थाभेदा इमे मताः ॥