मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 570, कुल 672 में से
संदर्भ में पढ़ेंदेवासुरमनुष्याणां रूपमेतद्विभाजकम् । त्रिविधं नरकस्यैतद्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभः तस्मादेतत्तत्रयं त्यजेत् । इत्येवं गीतया सैषा श्रुतिस्स्यादुपबृंहिता ॥ बृहदारण्यकान्तस्स्था प्राजापत्यास्त्रया इति । असुरांश्च मनुष्यांश्च देवांश्चापि प्रजापतिः ॥ उपादिशद्धि ददद्-दयध्वं दत्त दाम्यत । श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम् ॥ (108) मोक्षोपोद्घातः. 1 अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना । यदर्थं सकलं शास्त्रं जगत्यां संप्रवर्तते ॥ दुःखाभावस्सुखमिति व्यवहारस्य गोचरः । किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥ न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् । अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा ॥ दुःखाभावस्सुखमिति जरत्तार्किकसम्मतः । इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके ॥ 2 सुखाभावो दुःखमिति व्यवहारस्य गोचरः । दुःखं वस्त्वन्तरं नास्तीत्याहुर्लोकायताः पुनः ॥