मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
देवासुरमनुष्याणां रूपमेतद्विभाजकम् । त्रिविधं नरकस्यैतद्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभः तस्मादेतत्तत्रयं त्यजेत् । इत्येवं गीतया सैषा श्रुतिस्स्यादुपबृंहिता ॥ बृहदारण्यकान्तस्स्था प्राजापत्यास्त्रया इति । असुरांश्च मनुष्यांश्च देवांश्चापि प्रजापतिः ॥ उपादिशद्धि ददद्-दयध्वं दत्त दाम्यत । श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम् ॥ (108) मोक्षोपोद्घातः. 1 अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना । यदर्थं सकलं शास्त्रं जगत्यां संप्रवर्तते ॥ दुःखाभावस्सुखमिति व्यवहारस्य गोचरः । किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥ न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् । अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा ॥ दुःखाभावस्सुखमिति जरत्तार्किकसम्मतः । इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके ॥ 2 सुखाभावो दुःखमिति व्यवहारस्य गोचरः । दुःखं वस्त्वन्तरं नास्तीत्याहुर्लोकायताः पुनः ॥
मोक्षोपोद्घातः 529 यावज्जीवं सुखं जीवेत् सुखभाजः प्रजास्स्मृताः । आत्मा सुखे नियोक्तव्य इत्यादिबचसां चयात् ॥ 3 सुषुप्त्याद्युपलम्भेन सर्वे दार्शनिकाः परे । तृतीयामसुखादुःखावस्थामभ्युपयन्ति ते ॥ रागद्वेषविहीना या दशोपेक्षात्मिका यथा । यथाऽनुष्णाशीतता वा यथाऽनिर्वचनीयता ॥ प्रत्यक्षाच्च परोक्षाच्चापरोक्षोऽन्यो यथेष्यते । कृतिज्ञप्त्योरन्तराळे व्यक्तिरन्या यथोच्यते ॥ तादात्म्यं च यथा भेदाभेदयोर्मध्यलक्षणम् । पतितात्पतितव्याच्च वर्तमानाध्वता यथा ॥ संचितागामिनोर्मध्ये प्रारब्धं वा यथेष्यते । तथाऽन्तरालावस्थानं प्राय इच्छन्ति सूरयः ॥ मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः । न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥ 4 अभ्यास एव सर्वत्र सुखादीनां नियामकः । कालदेशदशाभिन्नस्वभावात्स व्यवस्थितः ॥ नहि वस्तु स्वभावेन पुरुषार्थत्वमश्नुते । तथात्वे सर्वदा सर्वं सर्वेषां स्याद्व्यवस्थया ॥ सुखाय वा स्याद्दुःखाय नचैवं त्वव्यवस्थया । सुखदुःखव्यवस्थेयं दुर्निरूपा हि धीमताम् ॥ M.R. 67.
30 मानमेयरहस्यश्लोकवार्तिके तथाचोक्तं पुराणेऽपि पराशरमहर्षिणा । मनःप्रीतिकरः स्वर्गः नरकस्तद्विपर्ययः ॥ वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च ततस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय ततः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् । संस्कारात्मा वासनैव सुखदुःखव्यवस्थितिः ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तत्तस्मात्तस्य रोचते ॥ पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव हि यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः॥ अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ क्षुत्तृष्णोपशमं तद्वत् शीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वात् दुःखमेव हि तत्पुनः ॥ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥ तथा सौगतगाथाऽपि गीयते सार्वलौकिकी । परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ॥
मोक्षोपोद्घातः 53 कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । अथौपनिषदानां च श्रुता माण्डूक्यकारिका ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वाऽसौ तद्ग्रहस्समुपैति तम् ॥ 5 एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥ निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः । क्लेशकर्मप्रहाणाद्द्वारो निःश्रेयसोदयः ॥ त्यागेन वाऽथ भोगेन वैराग्यमिति संशये । न कर्मणा न प्रजया त्यागेनैकेत्यनुश्रवात् ॥ त्यागेनैवेति सिद्धान्तः निगमान्तविदां मतः । न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते । इति मन्वादयोऽप्येतं पन्थानं समुपाश्रिताः ॥ भोगेनैवेति सिद्धान्तः सांख्यानामवगम्यते । भोगं कृत्वैव पुरुषस्यापवर्गं करोत्यपि ॥ प्रधानमिति सिद्धान्तः सांख्यशास्त्रेऽवगम्यते । जहात्येनां भुक्तभोगामित्यपि श्रूयते श्रुतिः । ऋणापाकरणश्रुत्याऽप्येष पन्थाः प्ररोच्यते । एकाश्रम्यविधानं च जैमिनेरिह युज्यते ॥
532 मानमेयरहस्यश्लोकवार्तिके कथं चिदपि वैराग्यमन्तरङ्गं विमुक्तये । इति बोधयितुं शिष्यान् प्राचां तत्र न विस्तरः । 6 अल्पत्वास्थैर्यचिन्तायां सर्वं दुःखमयं जगत् । पूर्णत्वस्थैर्यबुद्धौ तु सर्वं सुखमयं जगत् ॥ अतोऽभिमानानुगुणा सुखदुःखव्यवस्थितिः । सोऽभिमानः कर्ममूल इति लोकायतेतरे ॥ कर्मापिचेश्वरायत्तमिति सेश्वरपद्धतिः । कर्मानपेक्षेशवादे शैवीच्छा तन्नियामिका ॥ 7 सुखदुःखवस्थानुगुणा शास्त्रसमुत्थितिः । दुःखं मा भूत्सुखं भूयादिति सर्वस्समीहते ॥ यदा लोको भिन्नरुचिर्भिन्नसंस्कारसंस्कृतः । विचित्रो लौकिकेऽप्यर्थे किमुवाच्यमलौकिके ॥ तस्मान्मोक्षविकल्पोऽयं तत्साधनविकल्पना । तत्तच्छास्त्रविकल्पो वा नाश्चर्यमिह धीमताम् ॥ (109) मोक्षविकल्पः. 1 पापसत्त्वे दुःखसत्त्वं तत्सत्त्वे मुक्तिसत्यता । तत्सत्त्वे हेतुचिन्ता स्यात् सर्वं श्रद्धानिबन्धनम् । तथाऽप्यात्यन्तिको दुःखध्वंसश्चेन्मोक्ष इष्यते । देहविच्छेदमात्रेण विमोक्षश्चारुवाङ्गतः ॥
मोक्षविकल्पः 5 महानन्दो यदा मोक्षः शरीरान्याविनिर्णयात् । सहस्रकामिनीलाभं कामशास्त्रविदो विदुः ॥ तत्रापिच सहस्रेति सहस्रवणमुच्यते । सहस्रुतिर्मोक्ष इति रतिरत्नदीपिका ॥ शून्याद्वैतं माध्यमिकमतस्थैः मोक्ष इष्यते । स चोपलम्भोपशमः प्रपञ्चोपशमश्शिवः ॥ दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं ततः । यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ॥ शून्यादीनां भावनया वासनानां परिक्षयात् । धीसंततिः निर्वृणोति निर्वातस्थप्रदीपवत् ॥ वासनात्यन्तविच्छेदं योगाचाराः प्रचक्षते । ततो विशुद्धविज्ञानसत्सन्तानमहोदयः ॥ समस्तालीकविषयज्ञानसंतानसंहतिः । प्रज्ञाकरोदिता सौत्रान्तिकसिद्धान्तसम्मता ॥ यतोऽसत्ख्यातिसिद्धान्तः सौत्रान्तिकपरिष्कृतः केचिद्विषयसंसर्गवैधुर्यमनुजानते ॥ वैभाषिकमते मोक्षस्स स्यादिति विनिर्णयः । मतेष्वेषु त्रिषु मता केवला बुद्धिसंततिः ॥ एकतापत्तिमिश्च्छन्ति सन्ततीनां धियां परे । शुद्धज्ञानोदयः कैश्चित् चरमज्ञानमिष्यते ॥
534 मानमेयरहस्यश्लोकवार्तिके नित्योर्ध्वगमनं मुक्तिरिति ह्यार्हतपद्धतिः । अर्हद्देहानुप्रवेशः तदीयैः कैश्चिदिष्यते ॥ साधारणशरीरोऽसौ सर्वलोकोपरिस्थितः । निरावरणता कैश्चिदलोकाकाश इष्यते ॥ सर्वलोकाकाशमूर्ध्नि सोऽलोकाकाश इष्यते । वियातानुभवः कैश्चिद्धैयात्यं च प्रगल्भता ॥ स्वातन्त्र्यं शिवसारूप्यं शिवसाम्यमथापिवा । चिच्छक्तिपरिशेषश्च भेदाः पाशुपता इमे ॥ 2 ज्योतिष्टोमाग्निहोत्रादिसाध्यो यस्स्वर्गलक्षणः । मोक्षस्स एवेति मतं जरन्मीमांसकाहृतम् ॥ चित्तेन स्वात्मसौख्यानुभूतिं भाट्टैकदेशिनः । केचित्स्वात्मन्यवस्थानमभावापत्तिलक्षणम् ॥ परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता । मुक्तिर्निःश्रेयसमिति निर्णीतं तन्त्रवार्तिके ॥ प्रभाकरगुरूणां तु दृषत्तुल्य इतीरितम् । बोद्धा विषयसंवित्तौ ग्राहकत्वेन भासते ॥ मोक्षे प्रकाशरूपोऽसावात्मेत्येके प्रचक्षते । नेप्स्येत पुरुषैस्स्वापादविशिष्टोऽन्यथा तदा ॥ केवलात्मानन्दभोगः कापिलैः कैश्चिदिष्यते । कैश्चित्स्वसंवित्तिशून्या कैवल्यावास्थितिर्मता ॥
मोक्षविकल्पः एवमेवानुजानन्ति पातञ्जलमतानुगाः । प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते ॥ सर्ववैशेषिकगुणोच्छेदः काणभुजो मतः । एवमेवानुजानन्ति केचिद्गौतमदर्शनाः ॥ तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः । अथौपनिषदैः प्रायः ब्राह्माविर्भाव उच्यते ॥ स्वाभाविकं तु ये भेदाभेदमिच्छन्ति वैदिकाः । भर्तृप्रपञ्चाद्यस्तैस्सन्मात्रब्रह्मता मता ॥ औपाधिकं तु ये भेदमभेदं निरुपाधिकम् । इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः । सर्वातिशयितानन्दस्वात्मसंवेदिनः प्रभोः । सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते ॥ आविद्यकं तु ये भेदमभेदं पारमार्थिकम् । अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः ॥ निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते । ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम् ॥ ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः । परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते ॥ तद्भोगे परमं साम्यमाहू रामानुजादयः । स्वतन्त्रयोरस्वतन्त्ररूपानन्दाभिव्यक्तिलक्षणा ॥
536 मानमेयरहस्यश्लोकवार्तिके
मुक्तिरित्युच्यते पूर्णप्रज्ञैः विष्णोः प्रसादतः । 'प्रायेणैतेषु पक्षेषु संकीर्णा इतरेऽखिलाः ॥ ३ जीवस्वरूपप्रध्वंसवादिनो ये विचक्षणाः । मुक्तिमात्यन्तिकीं सर्वक्लेशोभ्यस्ते विदुस्ततः ॥ तत्रादिमास्तु क्षणिकविज्ञानात्मविदो बुधाः । देहान्तात्मविदो ये तु बार्हस्पत्या हि ते मताः ॥ पौराणिकैकदेशीयाः ये कल्पान्तात्मवादिनः । येऽप्यौपनिषदाः केचित् मोक्षान्तात्माभिधायिनः। तत्रच ब्रह्मदत्तीयाः जीवोत्पत्त्यादिवादिनः । ब्रह्मैवोपादानमेषां जीवानामिति तन्मतम् ॥ भर्तृप्रपञ्चादयोऽन्ये ब्रह्मावस्थात्मवादिनः । तत्र केचिदभिव्यक्तिवादिनः शक्तिवेदिनः ॥ विकारा ब्रह्मणः जीवा इति कैश्चिदुपेयते । उत्पत्तिरप्यभिव्यक्तिः विकृतिर्वाऽप्यवस्थितिः ॥ परिणामस्ततस्सर्वे ख्याता वैनाशिका इति । सर्वेऽप्याश्रयनाशेन क्लेशप्रध्वंसवादिनः ॥ वैकासिकाः परे सर्वे प्रायो वैयासिका इमे । परिच्छेदकनाशेन ह्यपरिच्छेदवादिनः ॥ ४ एवं मोक्षविकल्पेन द्विविधा ज्ञायते गतिः । स्वरूपोच्छित्तिरूपैकोपाध्युच्छित्तिरनन्तरा ॥
मोक्षविकल्पः ५३ उपाध्युच्छित्तिपक्षेऽपि विभागो मुख्यतस्त्वसौ । स्वसंवेदनराहित्यसाहित्याभ्यां द्विधा मतः ॥ स्वस्वरूपोच्छित्तिपक्षसंविद्रहितपक्षयोः । विशेषः फलतो नैव वक्तुं शक्यमितीतरे ॥ सुखसंवित्त्यभिव्यक्तिं कैवल्येऽप्यनुजानते । श्रुतिन्यायानुरोधेन तात्पर्ये पर्यवस्यति ॥ अतस्स्वतन्त्रः श्रौतोऽन्यः पक्षो नास्तीति यौक्तिका तस्मान्मध्यस्थचिन्तायां सम्प्रदायः परा गतिः ॥ संस्कारः सुदृढस्सोऽयं पारंपर्यव्यवस्थितः । संप्रदायः यतः श्रद्धाविद्याकर्ममयः पुमान् ॥ 5 येयं सुषुप्त्यवस्थैषा सर्वचेतनसाक्षिता । तामुदाहरणं मुक्तेस्सर्वे दार्शनिका विदुः ॥ बृहदारण्यके याज्ञवल्क्यो जनकभूपतेः । मोक्षोपलक्षणामेतामाह षष्ठप्रपाठके ॥ भाष्येऽपि पाक्षिले सैषा दशैवानूदिता तथा । यथा सुप्तस्य च स्वप्नादर्शने क्लेशसंक्षयः ॥ तथाऽपवर्गे रागानुबन्धो विच्छिद्यते तराम् । तस्यामपिं दशायां ये विकल्पास्तान्निबोधत ॥ आत्मप्रध्वंसवादा ये तेषां निर्वाणलक्षणा । मुक्तिरात्यन्तिकी सैषा या महासुप्तिरुच्यते ॥ M.R. 68
538 मानमेयरहस्यश्लोकवार्तिके आत्मनित्यत्ववादा ये तेषां कैवल्यलक्षणा । मुक्तिरेतादृगेवेष्टा सुखदुःखविवर्जिता ॥ एतां च केचिदत्यन्तसुखरूपां विजानते । केचिदल्पसुखां केचिदभावालम्बनां विदुः ॥ केचिन्मोहमयीं प्राहुरात्मनोऽस्फुरणात्मिकाम् । दृष्टान्तेऽपि विवादश्चेत्कथं दार्ष्टान्तिकस्थितिः ॥ 6 यैषाऽऽनन्दस्य मीमांसा मानुषानन्दपूर्विका । विकासरूपा सा सर्वलोककामाप्तिलक्षणा ॥ एते वैकासिकाः ख्याताः प्रायो वैनाशिकाः परे ते निवृत्तिपराकाष्ठानिष्ठा इति विनिर्णयः ॥ ये प्रवृत्तिपराकाष्ठानिष्ठास्ते उभये समाः । भावाभावस्वभावस्य फलयोरविशेषतः ॥ या संकोचनिवृत्तिस्स विकास इति गीयते । यैवावृत्तिनिवृत्तिस्स प्रकाश इति कथ्यते ॥ सर्वदा गमनं यच्च सर्वदा स्थितिरेव सा । सर्वत्र गमनं यच्च सर्वत्र व्याप्तिरेव सा ॥ पराप्रकाशयता यैव सैव स्यात्स्वप्रकाशता । अस्तमेतैव सविता चोदेता कस्यचिद्भवेत् ॥ तथा सर्वपरित्यागस्सर्वसंग्रहणात्मकः । सर्वत्र रागस्सर्वत्र वैराग्यं चोभयं समम् ॥
मुक्तात्मविकल्पः ५३९ सर्वज्ञता सर्वशक्तिः जडता तुच्छताऽपिवा । तथैव सर्वतोमुक्तिस्सर्वप्राप्तिरितीर्यते ॥ अपोहदृष्टयः केचित्केचिदन्वयदृष्टयः । श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव सः ॥ नैरात्म्यमेव सार्वात्म्यं इति तत्त्वविदो विदुः । एष कश्चित्सर्वसमरसभावविनिर्णयः ॥ (110) मुक्तात्मविकल्पः 1 आत्मनः खलु वै मोक्षोऽथात्मचिन्ता प्रवर्तते । आत्मतत्त्वानुसारेण मोक्षतत्त्वं विभिद्यते ॥ तथाच लोकायतिकाः परलोकापवादिनः । चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते 2 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा । ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥ ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥ गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ तद्विज्ञानस्कन्ध एषः क्षणिकश्च ध्रुवान्तकः । कर्तृभोक्तृप्रत्यभिज्ञाव्यवस्था वासनानुगा ॥
40 मानमेयरहस्यश्लोकवार्तिके ज्ञानसंततिरुच्छिन्ना शून्यताऽद्वयलक्षणा । मुक्तात्मेति विदुः केचित् परे तां शुद्धलक्षणाम् ॥ 3 केवलं चापि कूटस्थं पुरुषं कापिला विदुः । चैतन्यं चेतनश्चासावभेदो धर्मधर्मिणोः ॥ न कर्तृताभोक्तृताद्याश्चितस्स्वाभाविका गुणाः । असंसर्गाग्रहाद्बुद्धिवृत्तयोऽध्यासगोचराः ॥ परेतु सांख्याः पुरुषे भोक्तृतामनुजानते । चिद्रूपेण विकारोऽसौ स्यात्सजातीयलक्षणः ॥ यस्मिन् विक्रियमाणेऽपि तदेवेदमिति प्रमा । न विहन्येत तन्नित्यं निर्विकारं च मन्वते ॥ 4 चैतन्यदृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । तत्सर्वतोमुखं मुक्ताविति पाशुपता विदुः ॥ 5 वैशेषिकादयः ज्ञातृकर्तृभोक्तृत्वलक्षणान् । गुणानागन्तुकानात्मन्युपयन्तोऽपि नित्यताम् ॥ विभुत्वं निर्विकारत्वमिच्छन्त्युच्छित्त्यसंभवात् । न प्रकाशात्मतां नापि स्वप्रकाशात्मतां विदुः ॥ 6 कौमारिलादिसिद्धान्ते कर्ता भोक्ता मतः पुमान् ज्ञानशक्तिस्वभावश्च नित्यः सर्वगतः स्वतः ॥ नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता ॥
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥ विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥ सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते । कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥ 7 विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः । विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे ॥ ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम् । दोषहानौ सदद्वैतं आनन्दमजरामरम् ॥ 8 विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः । विकारजातमात्मानं निर्विकारं प्रचक्षते ॥ तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः । तत्तत्पदार्थसंसर्गात्तत्तद्वित्त्वमश्नुते ॥ स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः । स्वाभाविको मोक्षदशाविकासः न स दुष्यति ॥ ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान् । निरञ्जनस्तु परमं साधर्म्यमुपगच्छति ॥ 9 विशुद्धाद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान् । रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः ॥
सर्वे स्वरूपभूतास्स्युः ते यावद्द्रव्यभाविनः । अन्तःकरणधर्मंश्च ज्ञानादीन् सांख्यरीतितः ॥ विदुस्स्वरूपातिरिक्तान् सुखादीन् साक्षिगोचरान् । सर्वेऽप्यौपाधिकाः कर्मनाशे नश्यन्ति केवलम् ॥ सांशोऽपि सविकारोऽपि साकारोऽपि परस्परम् । विलक्षणोऽपि जीवात्मा नित्य एवेति निर्णयः ॥ 10 द्रव्यात्मा निर्विकारस्स्यात् पर्यायात्मा विकार्यपि । नातो विरोध इत्याहुर्भेदाभेदविशारदाः ॥ सत्योपाध्युपधानेन कर्तृभोक्त्रादिलक्षणः । पुरुषो भास्करमते निर्विकारः स्वतः पुमान् ॥ 11 स्याद्वादिनो विकारित्वं सांशत्वं द्रव्यतां तथा । पर्यायत्वं च मूर्तत्वं परिच्छिन्नत्वमेवच ॥ अनादित्वमनन्तत्वं आत्मरूपं प्रचक्षते । आनन्दरूपं सार्वज्ञ्यं स्वातन्त्र्यं सदनुग्रहम् ॥ 12 अविद्योपाधिना वा शक्त्या धर्मेण वा पुनः । स्याद्वादाद्वा वासनया विरोधाभावसंग्रहः ॥ 13 चतुर्विधाः पुरा प्रोक्ताः ह्यात्मानित्यत्ववादिनः । चतुर्ष्वपि मतेष्वेतान् क्रमाद्दोषान् विदुः परे ॥ आद्ये मते त्वैहिकार्थप्रवृत्तिर्दुर्घटा भवेत् । देहान्तत्वे विश्ववृत्तिर्धर्म्ये पथि न सिद्ध्यति ॥
मुक्तात्मविकल्पः 543
आकल्पस्थायिपक्षे तु मोक्षशास्त्रं हि निष्फलम् । आमोक्षस्थायितायां तु मोक्षस्य न पुमर्थता ॥ तस्माच्चतुर्विधैरेष पुरुषार्थैर्यथायथम् । समन्वयं प्राप्तुमर्हः स्वीकर्तव्य इति स्थितम् ॥ मद्धिनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् । इति नैव प्रवृत्तिस्स्यात् आत्मानश्चेद्विनाशिनः ॥ निरस्ताखिलदुःखोऽहमनन्तानन्दभाक्स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्यस्तम्भः कुम्भश्च तिष्ठति । इति स्वस्य शिरश्छेदः पुरुषार्थो न कस्यचित् ॥ ननुचात्महनो लोके पुरुषास्सन्ति चेन्न ते । विवेकिनः किन्तु मूढाः क्रोधान्धहृदया इति ॥ आत्मानो यद्यनित्यास्स्युः कृतहानाकृतागमौ । स्यातामिति मतं तेषामात्मनित्यत्ववादिनाम् ॥ स्योदन्यथा पापपुण्यविप्लवश्शास्त्रविप्लवः । प्रपञ्चविप्लवस्तस्मात्सर्वेषामात्मनित्यता ॥ सर्वथा साधनीयेति सर्वशास्त्रार्थसंग्रहः । इदमेव ह्यास्तिकत्वं नास्तिकत्वं विपर्ययः ॥
(111) कर्मनिवृत्तिवादः. 1 मुक्तिर्हि कर्मणो मोक्षः कर्मतत्त्वं विबुद्ध्यताम् । पुण्यं पापमिति द्वेधा लोके कर्म हि विश्रुतम् ॥ पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम् । सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम् ॥ इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम् । शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥ अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः । प्राभाकरास्तु वाक्यार्थं नियोगं तत्प्रचक्षते ॥ स भावनाविशेषस्स्यादात्मस्थ इति निर्णयः । कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम् ॥ बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः । धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ॥ आराध्यदेवताप्रीतिं बादरायणवर्त्मगाः । आचक्षते धर्मगिरा सौगताश्चित्तवासनाम् ॥ 2 इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः । तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम् ॥ नन्वात्मदर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम् । अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम् ॥ अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः । कथं फलमदत्त्वैव प्राक्तनं कर्म शाम्यति ॥
कर्मनिवृत्तिवादः ५४ कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् । तथाऽल्पफलदानं च राजपुत्रापराधवत् ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । इत्यादीनि वचांस्यत्र प्रमाणमुपलभ्यते ॥ ३ तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधाः । तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः ॥ बन्धश्चित्तगतो येषामात्मा कूटस्थलक्षणः । तेषां तु कापिलादीनां चित्तनाशेन मोक्षणम् ॥ दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः । भोगापवर्गार्थतायां कृतायां तन्न दृश्यते ॥ आविद्यकं कर्म येषामविद्यावादिनां मतम् । स्वप्रप्रबोधन्यायेन विद्यायां तत्परिक्षयः ॥ तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम् । साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः ॥ केचित् श्रुतिमयीं केचिदाहुर्वाक्यार्थधीमयीम् । एवं बहुविधा वादाः मायामभ्युपगच्छताम् ॥ ४ कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः । प्रशस्तपाददेवेन सूचितं भाष्यसागरे ॥ केषांचियोगिनां शान्तिसंतोषस्सुखलक्षणः । दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति ॥ M.R. 69
546 मानमेयरहस्यश्लोकवार्तिके सौभर्यादिन्यायाद्वाऽपि नानादेहपरिग्रहात् । सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन ॥ नित्यं नैमित्तिकं कर्म कर्तव्यं ज्ञानिनामपि । अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे ॥ 5 नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत् । प्रायश्चित्तनयाच्चेति बृहट्टीकाकृतां मतम् ॥ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥ अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः । धर्मेणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः ॥ इत्यादीनि वचांस्यत्र प्रमाणानि परश्शतम् । प्रतिपद्य विनिर्णीतः मुक्त्यै कर्मपरिक्षयः ॥ 6 तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये । उत्तरप्रचयाभावात् विदुर्मुक्तिं कुमारिलाः ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ 7 सर्वाणि पूर्वकर्माणि संभूयैकं शरीरिणाम् । शरीरमारभन्तेऽतः प्रारब्धान्नास्ति संचितम् ॥ स चैकभविकः पक्षः पातञ्जलमतादृतः । तं नाद्रियन्ते बहवः कर्मशेषवचश्शतैः ॥
8 ज्ञानाग्निना कर्मनाशः वासुदेवस्य सम्मतः । नानुयोगस्यावकाशः पुमर्थे शास्त्रलक्षणे ॥ ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन । नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥ 9 मिथ्याज्ञानं च दोषाश्च कर्मणस्सहकारिणः । तद्वैकल्येन सन्त्येव न फलन्तीति गौतमाः ॥ 10 समाराध्योऽपराध्यो वा भगवान् सर्वकर्मणाम् । तस्मिन् प्रसन्ने किं साध्यं न भवेदिति सेश्वराः ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 11 एवमाद्यं सुप्रसिद्धमथ वैयासिके मते । माहात्म्यं ब्रह्मविद्यायाः फलाध्याये प्रदर्शितम् ॥ अश्लेषश्च विनाशश्च स्यातामुत्तरपूर्वयोः । तत्र पूर्वे अनारब्धकार्ये एवेति निर्णयः ॥ भोगेनैव क्षेपणीये प्रारब्धे कर्मणी इति । यत् श्रूयते शत्रुमित्रोपायनं कर्मणोरिदम् ॥ समानविषयं ज्ञेयं तदश्लेषविनाशयोः । कालभेदस्त्वेतदीयावस्थाभेदनिबन्धनः ॥ अनुग्रहो निग्रहो वा क्रमादेव हि लौकिकः । वर्धते क्षीयते तद्वदीश्वरीयोऽप्यलौकिकः ॥