मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 574, कुल 672 में से
संदर्भ में पढ़ें532 मानमेयरहस्यश्लोकवार्तिके कथं चिदपि वैराग्यमन्तरङ्गं विमुक्तये । इति बोधयितुं शिष्यान् प्राचां तत्र न विस्तरः । 6 अल्पत्वास्थैर्यचिन्तायां सर्वं दुःखमयं जगत् । पूर्णत्वस्थैर्यबुद्धौ तु सर्वं सुखमयं जगत् ॥ अतोऽभिमानानुगुणा सुखदुःखव्यवस्थितिः । सोऽभिमानः कर्ममूल इति लोकायतेतरे ॥ कर्मापिचेश्वरायत्तमिति सेश्वरपद्धतिः । कर्मानपेक्षेशवादे शैवीच्छा तन्नियामिका ॥ 7 सुखदुःखवस्थानुगुणा शास्त्रसमुत्थितिः । दुःखं मा भूत्सुखं भूयादिति सर्वस्समीहते ॥ यदा लोको भिन्नरुचिर्भिन्नसंस्कारसंस्कृतः । विचित्रो लौकिकेऽप्यर्थे किमुवाच्यमलौकिके ॥ तस्मान्मोक्षविकल्पोऽयं तत्साधनविकल्पना । तत्तच्छास्त्रविकल्पो वा नाश्चर्यमिह धीमताम् ॥ (109) मोक्षविकल्पः. 1 पापसत्त्वे दुःखसत्त्वं तत्सत्त्वे मुक्तिसत्यता । तत्सत्त्वे हेतुचिन्ता स्यात् सर्वं श्रद्धानिबन्धनम् । तथाऽप्यात्यन्तिको दुःखध्वंसश्चेन्मोक्ष इष्यते । देहविच्छेदमात्रेण विमोक्षश्चारुवाङ्गतः ॥