मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 573, कुल 672 में से
संदर्भ में पढ़ेंमोक्षोपोद्घातः 53 कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । अथौपनिषदानां च श्रुता माण्डूक्यकारिका ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वाऽसौ तद्ग्रहस्समुपैति तम् ॥ 5 एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥ निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः । क्लेशकर्मप्रहाणाद्द्वारो निःश्रेयसोदयः ॥ त्यागेन वाऽथ भोगेन वैराग्यमिति संशये । न कर्मणा न प्रजया त्यागेनैकेत्यनुश्रवात् ॥ त्यागेनैवेति सिद्धान्तः निगमान्तविदां मतः । न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते । इति मन्वादयोऽप्येतं पन्थानं समुपाश्रिताः ॥ भोगेनैवेति सिद्धान्तः सांख्यानामवगम्यते । भोगं कृत्वैव पुरुषस्यापवर्गं करोत्यपि ॥ प्रधानमिति सिद्धान्तः सांख्यशास्त्रेऽवगम्यते । जहात्येनां भुक्तभोगामित्यपि श्रूयते श्रुतिः । ऋणापाकरणश्रुत्याऽप्येष पन्थाः प्ररोच्यते । एकाश्रम्यविधानं च जैमिनेरिह युज्यते ॥