मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 575, कुल 672 में से
संदर्भ में पढ़ेंमोक्षविकल्पः 5 महानन्दो यदा मोक्षः शरीरान्याविनिर्णयात् । सहस्रकामिनीलाभं कामशास्त्रविदो विदुः ॥ तत्रापिच सहस्रेति सहस्रवणमुच्यते । सहस्रुतिर्मोक्ष इति रतिरत्नदीपिका ॥ शून्याद्वैतं माध्यमिकमतस्थैः मोक्ष इष्यते । स चोपलम्भोपशमः प्रपञ्चोपशमश्शिवः ॥ दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं ततः । यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ॥ शून्यादीनां भावनया वासनानां परिक्षयात् । धीसंततिः निर्वृणोति निर्वातस्थप्रदीपवत् ॥ वासनात्यन्तविच्छेदं योगाचाराः प्रचक्षते । ततो विशुद्धविज्ञानसत्सन्तानमहोदयः ॥ समस्तालीकविषयज्ञानसंतानसंहतिः । प्रज्ञाकरोदिता सौत्रान्तिकसिद्धान्तसम्मता ॥ यतोऽसत्ख्यातिसिद्धान्तः सौत्रान्तिकपरिष्कृतः केचिद्विषयसंसर्गवैधुर्यमनुजानते ॥ वैभाषिकमते मोक्षस्स स्यादिति विनिर्णयः । मतेष्वेषु त्रिषु मता केवला बुद्धिसंततिः ॥ एकतापत्तिमिश्च्छन्ति सन्ततीनां धियां परे । शुद्धज्ञानोदयः कैश्चित् चरमज्ञानमिष्यते ॥