मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 576, कुल 672 में से
संदर्भ में पढ़ें534 मानमेयरहस्यश्लोकवार्तिके नित्योर्ध्वगमनं मुक्तिरिति ह्यार्हतपद्धतिः । अर्हद्देहानुप्रवेशः तदीयैः कैश्चिदिष्यते ॥ साधारणशरीरोऽसौ सर्वलोकोपरिस्थितः । निरावरणता कैश्चिदलोकाकाश इष्यते ॥ सर्वलोकाकाशमूर्ध्नि सोऽलोकाकाश इष्यते । वियातानुभवः कैश्चिद्धैयात्यं च प्रगल्भता ॥ स्वातन्त्र्यं शिवसारूप्यं शिवसाम्यमथापिवा । चिच्छक्तिपरिशेषश्च भेदाः पाशुपता इमे ॥ 2 ज्योतिष्टोमाग्निहोत्रादिसाध्यो यस्स्वर्गलक्षणः । मोक्षस्स एवेति मतं जरन्मीमांसकाहृतम् ॥ चित्तेन स्वात्मसौख्यानुभूतिं भाट्टैकदेशिनः । केचित्स्वात्मन्यवस्थानमभावापत्तिलक्षणम् ॥ परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता । मुक्तिर्निःश्रेयसमिति निर्णीतं तन्त्रवार्तिके ॥ प्रभाकरगुरूणां तु दृषत्तुल्य इतीरितम् । बोद्धा विषयसंवित्तौ ग्राहकत्वेन भासते ॥ मोक्षे प्रकाशरूपोऽसावात्मेत्येके प्रचक्षते । नेप्स्येत पुरुषैस्स्वापादविशिष्टोऽन्यथा तदा ॥ केवलात्मानन्दभोगः कापिलैः कैश्चिदिष्यते । कैश्चित्स्वसंवित्तिशून्या कैवल्यावास्थितिर्मता ॥