मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 577, कुल 672 में से
संदर्भ में पढ़ेंमोक्षविकल्पः एवमेवानुजानन्ति पातञ्जलमतानुगाः । प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते ॥ सर्ववैशेषिकगुणोच्छेदः काणभुजो मतः । एवमेवानुजानन्ति केचिद्गौतमदर्शनाः ॥ तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः । अथौपनिषदैः प्रायः ब्राह्माविर्भाव उच्यते ॥ स्वाभाविकं तु ये भेदाभेदमिच्छन्ति वैदिकाः । भर्तृप्रपञ्चाद्यस्तैस्सन्मात्रब्रह्मता मता ॥ औपाधिकं तु ये भेदमभेदं निरुपाधिकम् । इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः । सर्वातिशयितानन्दस्वात्मसंवेदिनः प्रभोः । सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते ॥ आविद्यकं तु ये भेदमभेदं पारमार्थिकम् । अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः ॥ निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते । ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम् ॥ ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः । परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते ॥ तद्भोगे परमं साम्यमाहू रामानुजादयः । स्वतन्त्रयोरस्वतन्त्ररूपानन्दाभिव्यक्तिलक्षणा ॥