मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 571, कुल 672 में से
संदर्भ में पढ़ेंमोक्षोपोद्घातः 529 यावज्जीवं सुखं जीवेत् सुखभाजः प्रजास्स्मृताः । आत्मा सुखे नियोक्तव्य इत्यादिबचसां चयात् ॥ 3 सुषुप्त्याद्युपलम्भेन सर्वे दार्शनिकाः परे । तृतीयामसुखादुःखावस्थामभ्युपयन्ति ते ॥ रागद्वेषविहीना या दशोपेक्षात्मिका यथा । यथाऽनुष्णाशीतता वा यथाऽनिर्वचनीयता ॥ प्रत्यक्षाच्च परोक्षाच्चापरोक्षोऽन्यो यथेष्यते । कृतिज्ञप्त्योरन्तराळे व्यक्तिरन्या यथोच्यते ॥ तादात्म्यं च यथा भेदाभेदयोर्मध्यलक्षणम् । पतितात्पतितव्याच्च वर्तमानाध्वता यथा ॥ संचितागामिनोर्मध्ये प्रारब्धं वा यथेष्यते । तथाऽन्तरालावस्थानं प्राय इच्छन्ति सूरयः ॥ मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः । न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥ 4 अभ्यास एव सर्वत्र सुखादीनां नियामकः । कालदेशदशाभिन्नस्वभावात्स व्यवस्थितः ॥ नहि वस्तु स्वभावेन पुरुषार्थत्वमश्नुते । तथात्वे सर्वदा सर्वं सर्वेषां स्याद्व्यवस्थया ॥ सुखाय वा स्याद्दुःखाय नचैवं त्वव्यवस्थया । सुखदुःखव्यवस्थेयं दुर्निरूपा हि धीमताम् ॥ M.R. 67.