मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 591, कुल 672 में से
संदर्भ में पढ़ेंकर्मज्ञानसंबन्धः 54 अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः । सर्वे ज्ञानैकसाध्यं तं मोक्षमाहुर्मनीषिणः ॥ तेषामनिष्टमज्ञानं तन्निवृत्तिरभीप्सिता । मोक्षः स्वतस्सिद्ध एव साध्यश्चेन्नश्यति ध्रुवम् ॥ परीक्ष्यलोकानित्यादिवेदान्ते प्रतिपादितम् । यामिमां पुष्पितां वाचमित्याद्यायां स्मृतावपि ॥ 2 ज्ञानस्य चाङ्गं कर्मेति कर्मणोऽङ्गं च धीरिति । तत्रापि च विशेषांशः एषोऽयमवधार्यताम् ॥ कर्म ज्ञानं द्वयं चापि स्यादारात्सन्निपत्य च । क्रमादङ्गमिति प्राहोदयनः किरणावळौ ॥ ज्ञानाङ्गकं च कर्मैव केषांचित् मोक्षसाधनम् । क्रत्वङ्गकर्तृसंस्कारो ज्ञानमित्यपरं मतम् ॥ कर्माधिकारसिद्ध्यर्थं शरीरान्यस्थिरात्मनः । विज्ञानमिति केषांचिन्मतं ज्ञानाङ्गवादिनाम् ॥ भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः । मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियास्सुधीः ॥ वेदोत्तरास्स्युर्वेदान्ता इति केचित्प्रचक्षते । ते पुनर्निगमान्तानामुपच्छन्दनवादिनः ॥ शेषत्वादिति सूत्रेण सर्वमेतद्विवक्षितम् । कर्माङ्गकं ज्ञानमेव मोक्षहेतुं विदुः परे ॥