मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 592, कुल 672 में से
संदर्भ में पढ़ेंतत्रारादुपकाराङ्गं भास्करादिमतं विदुः । सन्निपत्योपकाराङ्गं प्राहू रामानुजादयः ॥ आरादेवोपकुर्वन्ति क्रियाश्चित्तविशुद्धितः । इति सौरेश्वरं वाक्यं श्रुतं संबन्धवार्तिके ॥ कर्मणां कामविलयद्वारा धीशेषतोदिता : स कामध्वंससिद्धान्तः प्रायः कापिलसंमतः ॥ प्रपञ्चविलयद्वारा धीशेषत्वं विदुः परे । काण्डद्वयाविरोघाय नानामार्गविकल्पना ॥ ३ तमेतमिति शास्त्रेण वेदनाकामनार्थता । कर्मणामिति भामत्याचार्यसिद्धान्तपद्धतिः ॥ अथ स्याद्वेदनेच्छायां यज्ञानुष्ठानमिष्यते । अनुष्ठानाद्वेदनेच्छेत्यन्योन्याश्रयतेति चेत् ॥ इच्छा हि द्विविधा काचिद्विषयोन्मुख्यलक्षणा । उत्कटा रुचिरन्या स्यात् बुभुक्षादिषु दृश्यते ॥ अन्नद्वेषात्कृशो लोके तदौन्मुख्याच्चिकित्सने । प्रवर्ततेऽथ तद्रुच्या भोजनेऽपि प्रवर्तते ॥ येऽप्यत्र वेदनार्थत्वमाहुर्विवरणानुगाः । तैर्ज्ञानकामनान्तैव कर्मानुष्ठितिरिष्यते ॥ इयान्विशेषस्त्वनयोः संग्रहीतृनिरूपितः । विद्योत्पत्तेरनियमनियमाविति हि क्रमात् ॥