भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 595, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 595

कर्मज्ञानसंबन्धः 553 उपदिष्ट मपिप्राज्ञैः परिभावयितुं कुतः । तस्मात्कर्मोपदेशाद्यैरनुशिष्टोऽष्टवर्षकः ॥ कर्मपद्धतिनिर्वद्धः स्वाभाविकपथाच्च्युतः । उपदिष्टं चात्मतत्त्वं ग्रहीतुं ध्यातुमर्हति ॥ तस्मात्कर्मविधिसर्वः प्रलोभः परमार्थतः । आत्मविज्ञानाधिकारसिद्धयर्थ इति निर्णयः ॥ एष प्रच्छन्नचार्वाकमतसारांश इत्यपि । प्रदूषितः ब्रह्मकर्मवेदिभिः क्रान्तदर्शिभिः ॥ 7 कामप्रध्वंससिद्धान्तः यः पूर्वोत्तरकाण्डयोः । विरोधपरिहाराय जरन्मायाविदां मतः ॥ निमित्तवादे प्राचीने प्रायशः पर्यवस्यति । फलसंयोगवादे तु काम एवाभिवर्धते ॥ स्वर्गकामो यजेतेति निमित्तं कामना मता : परस्वकामुकः प्रायश्चित्तं कुर्याद्यथा तथा ॥ धनधान्यसमृद्धिस्तु यदा पुंसां भविष्यति । तदा सुखेच्छा भवति तच्छान्त्यै यागशासनम् । यागे च सर्वद्रव्याणि व्ययितानि भवन्ति हि । अतएव त्रिवर्षान्नैर्यष्टव्यमिति शिष्यते ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ M. R. 70

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 595, कुल 672 में से · BharatKosha