भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 606, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 606

564 मानमेयरहस्यश्लोकवार्तिके शास्त्रैकसमधिगम्यं ब्रह्मौपनिषदं मतम् । अतश्च शास्त्रयोनीति संरम्भेण निरूपितम् ॥ तदन्तःकरणाध्यक्षवेद्यत्वे हि विरुध्यते । भावनाबलजाध्यक्षवेद्यत्वेऽपि तथैव हि ॥ अतः प्रत्यक्षशब्दस्स्यात्समानाकारगोचरः । वृक्षेवृक्षे च पश्यामीत्यादिभूरिप्रयोगतः ॥ 2 सा स्मर्यमाणस्यात्यर्थप्रियत्वेन स्वयं तथा । अत्यर्थप्रीतिरूपत्वमापन्ना भक्तिरुच्यते ॥ भज इत्येष धातुर्वै सेवायां परिकीर्तितः । तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसा ॥ इति बोधायनवचः प्रस्पष्टं समुदाहृतम् । प्रकाशिकादीपिकयोः श्रीसुदर्शनसूरिभिः ॥ प्रीतिरूपमनुध्यानं भक्तिरित्यभिधीयते । भक्तिस्सेवोपास्तिरिति यास्कोऽपि निरघण्टयत् ॥ परभक्तिः परं ज्ञानं परमा भक्तिरित्यपि । पर्वक्रमेणोपचितं विज्ञानं मुक्तिसाधनम् ॥ साक्षात्कृतस्यानुभवाभिनिवेशस्तु सा परा । या फलस्याव्यवहितपूर्वावस्थेति कीर्त्यते ॥ तत्संबन्धाद्भक्तिशब्दः स्तुत्यादावुपचारतः । साऽनेकधा सदहरभूमविद्यादिभेदतः ॥