मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 605, कुल 672 में से
संदर्भ में पढ़ेंउभयानुगतं शुद्धचैतन्यमिति सिद्ध्यति । तदा यावत्सर्वमुक्ति चितिमात्राविरोधि यत् ॥ बद्धान्तराज्ञानकृतमैश्वर्यं निरवग्रहम् । गुणाष्टकं च निरतिशयानन्दप्रकाशनम् ॥ तैर्युक्ता निस्सन्धिबन्धे श्वरतापत्तिलक्षणा । मुक्तिस्सम्पद्यत इति सूत्रभाष्यादिसम्मता ॥ सैषा विशुद्धचिन्मात्रभावेऽन्ते पर्यवस्यति । इत्यद्वैतमते सूक्ष्मविचारोऽन्यत्र विस्तृतः ॥ (114) भक्तिः. 1 विशिष्टाद्वैतसिद्धान्ते नारायणकटाक्षतः । विनश्यत्यखिलं कर्माविद्यानिग्रहलक्षणम् ॥ वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवास्मृतौ । सा च दृष्टित्वमभ्येति दृष्टिः भक्तित्वमृच्छति ॥ स्मृतिसन्ततिधारेयं ध्यानमित्यभिधीयते । विजातीयप्रत्ययाव्यवहिता सा ध्रुवा स्मृतिः ॥ तैलादिधारावदविच्छिन्ना सन्ततिरेव सा । सा दर्शनसमाकारा दृष्टिरित्यभिधीयते ॥ वैशद्यातिशयश्चैषः भवेदाकारशब्दितः । एवंरीत्युपचारस्य निदानं स्यादिदं यथा ॥