मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
उभयानुगतं शुद्धचैतन्यमिति सिद्ध्यति । तदा यावत्सर्वमुक्ति चितिमात्राविरोधि यत् ॥ बद्धान्तराज्ञानकृतमैश्वर्यं निरवग्रहम् । गुणाष्टकं च निरतिशयानन्दप्रकाशनम् ॥ तैर्युक्ता निस्सन्धिबन्धे श्वरतापत्तिलक्षणा । मुक्तिस्सम्पद्यत इति सूत्रभाष्यादिसम्मता ॥ सैषा विशुद्धचिन्मात्रभावेऽन्ते पर्यवस्यति । इत्यद्वैतमते सूक्ष्मविचारोऽन्यत्र विस्तृतः ॥ (114) भक्तिः. 1 विशिष्टाद्वैतसिद्धान्ते नारायणकटाक्षतः । विनश्यत्यखिलं कर्माविद्यानिग्रहलक्षणम् ॥ वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवास्मृतौ । सा च दृष्टित्वमभ्येति दृष्टिः भक्तित्वमृच्छति ॥ स्मृतिसन्ततिधारेयं ध्यानमित्यभिधीयते । विजातीयप्रत्ययाव्यवहिता सा ध्रुवा स्मृतिः ॥ तैलादिधारावदविच्छिन्ना सन्ततिरेव सा । सा दर्शनसमाकारा दृष्टिरित्यभिधीयते ॥ वैशद्यातिशयश्चैषः भवेदाकारशब्दितः । एवंरीत्युपचारस्य निदानं स्यादिदं यथा ॥
564 मानमेयरहस्यश्लोकवार्तिके शास्त्रैकसमधिगम्यं ब्रह्मौपनिषदं मतम् । अतश्च शास्त्रयोनीति संरम्भेण निरूपितम् ॥ तदन्तःकरणाध्यक्षवेद्यत्वे हि विरुध्यते । भावनाबलजाध्यक्षवेद्यत्वेऽपि तथैव हि ॥ अतः प्रत्यक्षशब्दस्स्यात्समानाकारगोचरः । वृक्षेवृक्षे च पश्यामीत्यादिभूरिप्रयोगतः ॥ 2 सा स्मर्यमाणस्यात्यर्थप्रियत्वेन स्वयं तथा । अत्यर्थप्रीतिरूपत्वमापन्ना भक्तिरुच्यते ॥ भज इत्येष धातुर्वै सेवायां परिकीर्तितः । तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसा ॥ इति बोधायनवचः प्रस्पष्टं समुदाहृतम् । प्रकाशिकादीपिकयोः श्रीसुदर्शनसूरिभिः ॥ प्रीतिरूपमनुध्यानं भक्तिरित्यभिधीयते । भक्तिस्सेवोपास्तिरिति यास्कोऽपि निरघण्टयत् ॥ परभक्तिः परं ज्ञानं परमा भक्तिरित्यपि । पर्वक्रमेणोपचितं विज्ञानं मुक्तिसाधनम् ॥ साक्षात्कृतस्यानुभवाभिनिवेशस्तु सा परा । या फलस्याव्यवहितपूर्वावस्थेति कीर्त्यते ॥ तत्संबन्धाद्भक्तिशब्दः स्तुत्यादावुपचारतः । साऽनेकधा सदहरभूमविद्यादिभेदतः ॥
अविशिष्टफलत्वेन विकल्पश्च व्यवस्थितः । प्रपत्तिरपि च ब्रह्मविद्यैवेदि पुरः स्थितम् ॥ यैवैषा परभक्तिस्स्यात्तदेव परमं सुखम् । उपायश्च स एवायमीशनिग्रहशान्तये ॥ ज्ञानस्यैव विकारोऽयमिच्छाद्वेषसुखादिकः । अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥ कार्यं नियोगश्चापूर्वं धर्मो वेदार्थ इत्यपि । यद्वचः सकलं प्राह कृष्णं धर्मं सनातनम् ॥ देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा । इति वामनकाव्यालंकारसूत्रेऽप्यनूदितम् ॥ ज्ञानमार्गो भक्तिमार्गः विभिन्नः मोक्षसाधनम् । इति सिद्धान्तयोरैक्यं विशिष्टाद्वैतसम्मतम् ॥ ३ मोक्षप्रभेदं कैवल्यं केचिदिच्छन्ति सूरयः । तत्र स्वात्मानन्दलाभः पुनरावृत्तिवर्जितः ॥ कैश्चित्तु कैवल्यभोग्यः स्वात्मा ब्रह्मापृथक्स्थितः। विशेषणतया भानमात्रं ब्रह्मण इष्यते ॥ केषांचित्स्वात्मसंतोषः कैवल्यमिति निर्णयः । पुनरावृत्तिरस्यास्ति स्थितिः प्रकृतिमण्डले ॥ परिपूर्णपरब्रह्मानुभवे मोक्षलक्षणे । प्रभेदं केचिदिच्छन्ति तत्त्वमवधार्यताम् ॥
66 मानमेयरहस्यश्लोकवार्तिके
परब्रह्मोपासनया ये मुक्तास्ते तु केवलम् । परिपूर्णपरब्रह्मानुभवैकपरायणाः ॥ कैङ्कर्यलिप्सया ये तु मुक्तास्ते किङ्कराः पुनः । परार्थस्वार्थभेदेन द्विविधाः परिनिष्ठिताः ॥ एवं मोक्षे विधाभेदं केचिन्नेच्छन्ति सूरयः । कैवल्यनिष्ठया मुक्ताः न मुक्ता इति तैर्मताः ॥ स्वरूपतो मुक्तभेदं द्वैतसिद्धान्तिनो विदुः । आनन्दतारतम्येन मुक्तिभेदो व्यवस्थितः ॥ नित्यमुक्तो नित्यबद्धः आर्हतैर्नोपगम्यते । आद्यो विशिष्टाद्वैतेष्टः द्वितीयो द्वैतसम्मतः ॥ 4 अथ वृत्तिकृतां मार्गं पाञ्चरात्रमतानुगम् । समाश्रयन् बुधा एते तत्तत्त्वमवधार्यताम् ॥ द्वापरान्ते वासुदेवः भगवान् स हरिस्स्वयम् । अवातरदिति प्रायः सर्वैरभ्युपगम्यते ॥ तस्य संकर्षणो नाम भ्राताऽऽसीदिति च श्रुतम् प्रद्युम्नस्तनयः पौत्रोऽनिरुद्ध इति च श्रुतः ॥ सैषा परंपरा पाञ्चरात्रशास्त्रप्रवर्तिका । एते हि सात्त्वताः प्रोक्ताः शास्त्रं चापिहि सात्त्वतम् 5 सत्त्वच्छब्दो हि भगवच्छब्दवद्विष्णुतत्परः । अण्प्रत्ययश्च भक्तार्थः ते भागवतसात्त्वताः ॥
एवंहि श्रीयामुनेयागमप्रामाण्यनिर्णयः । वैश्यात्तु जायते व्रात्यात् मैत्रस्सात्त्वत एवच ॥ पञ्चमस्सात्त्वतो नाम विष्णोरायतनानि सः । पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥ इत्यादिवचनैर्हीनजातिशङ्का न युज्यते । मा भूदाचार्यशब्दत्वाद्व्राह्मणस्य निकृष्टता ॥ विष्णुपूजादिसंबन्धाज्जात्यन्तरभवा अपि । प्रसिद्धास्सात्त्वताश्चेति तथा भागवता इति ॥ 6 एवं शास्त्रं संप्रदायं कर्तारं विषयं तथा । आचष्ट भगवान् व्यासः भारते शान्तिपर्वणि ॥ सांख्यस्य वक्ता कपिल इत्यारभ्य हि पठ्यते । पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥ वेदान्तेषु यथा सारं संगृह्य भगवान् हरिः । भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥ सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः । द्वापरस्य युगस्यान्ते ह्यादौ कलियुगस्य च ॥ नारदेन तु संप्राप्तस्सरहस्यः ससंग्रहः । एष धर्मो जगन्नाथात् साक्षान्नारायणान्नृप ॥
568 मानमेयरहस्यश्लोकवार्तिके
एवमेष महान् धर्मः स ते पूर्वं नृपोत्तम । कथितो हरिगीतासु समासविधिकल्पितः ॥ नूनमेकान्तिधर्मोऽयं श्रेष्ठो नारायणप्रियः । सहोपनिषदान् वेदान् ये विप्रास्सम्यगास्थिताः ॥ पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः । तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्। समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे । अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ आगतिश्च गतिश्चैव पूर्वं ते कथितं मया । गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ 7 एवमेकं सांख्ययोगं वेदारण्यकमेवच । परस्पराङ्गन्येतानि पञ्चरात्रं तु कथ्यते ॥ इत्यादीनि प्रमाणानि प्रसिद्धानि विपश्चिताम् । तत्र चान्तिमपद्येन शास्त्रसारार्थ उद्धृतः ॥ तस्यायमर्थश्श्रीभाष्ये तर्कपादे निरूपितः । पञ्चविंशतितत्त्वानि सांख्योक्तानीति विश्रुतम् । योगोक्तश्वापि साष्टाङ्गयोगस्संयमलक्षणः । वेदोदितं च कर्मापि यागहोमादिलक्षणम् ॥ आरण्यकं परं ब्रह्म प्रतिपादयति स्फुटम् । परस्पराङ्गता तावत् तत्त्वं ब्रह्मात्मकं स्वतः ॥
भक्तिः 56 ब्रह्मोपासनरूपश्च योगः कर्मापि कृत्स्नशः । तदाराधनरूपं चेत्येतदत्राभिधीयते ॥ तत्पञ्चरात्रे प्रख्याते शास्त्रेऽस्मिन्विशदीकृतम् । इति नारायणेनैव स्वयं हि कथितं त्विति ॥ 8 एवमेतच्छास्त्रतत्त्वं संग्रहादिह सूचितम् । तच्छास्त्रमनुरुद्ध्यैव कर्मब्रह्मात्मनोरपि ॥ शास्त्रयोस्संधिरुदितस्सांकर्षे चात्र मन्यमे । प्रतिपाद्यमिदं तत्र पूर्वाचार्यनिरूपितम् ॥ स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् । फलं च देवताकाण्डे देवतानां तु कथ्यते । ततश्च संहितं शास्त्रमेतद्विंशतिलक्षणम् । इति वृत्तिकृतां वाक्यमेतत्तात्पर्यगर्भितम् ॥ एतेन कर्ममीमांसासिद्धान्ते जडविश्रुतः । निर्देववादो निस्संविद्देववादोऽप्यपाकृतः ॥ तं च संकर्षकाण्डं तु काशकृत्स्नविनिर्मितम् । प्राहुः केचिद्बुधास्त्वन्ये विदुः जैमिनिनिर्मितम् ॥ समाख्ययोल्लिखन्त्यन्ये संकर्षणविनिर्मितम् । सर्वथा पाञ्चरात्रस्य सिद्धान्तमनुवर्तते ॥ स्पन्दप्रदीपिका नाम भट्टोत्पलविनिर्मिता । तत्र चोदाहृतं ग्रन्थजातमेतन्निशम्यताम् ॥ M.R. 72
70 मानमेयरहस्यश्लोकवार्तिके पाञ्चरात्रश्रुतिः पाञ्चरात्रोपनिषदोऽपि च । संकर्षणस्य सूत्राणीत्यादिकं विविधं तु तत् ॥ तत्सूत्रस्थं वाक्यमेकमिदं तावदुदाहृतम् । येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यस्सदा ॥ दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते । एतेन विष्णुपारम्यसिद्धान्तोऽयमिति स्थितम् ॥ तत्सूत्रमनुसृत्यैव काशकृत्स्नेन वाऽथवा । कृतं जैमिनिना सूत्रं देवताकाण्ड इष्यते ॥ पूर्णप्रज्ञैरनुव्याख्याप्रबन्धे देवकाण्डगः । द्वितीयलक्षणश्शेषप्रणीत इति भाषितम् ॥ स एष संकर्षकाण्डः मीमांसाभाष्यकर्तृभिः । आचार्यशबरैः पूर्वाचार्यैश्च समुदाहृतः ॥ अन्ते हरौ स विष्णुश्च तं ब्रह्मेति च सूत्रणात् अथातो ब्रह्मजिज्ञासा चेति शास्त्रं सुसङ्गतम् १ तत्र शारीरकं शास्त्रं बादरायणनिर्मितम् । स बादरायणो व्यास इत्याहुर्बहवो बुधाः ॥ श्रीमद्रामानुजाचार्यः बादरायणनिस्वनम् । भाष्ये स्वे सूत्रकृत्त्वेन व्यासत्वेनाप्यभाषत ॥ तथा श्रीयामुनाचार्यस्सिद्धित्रयनिबन्धने । उपक्रमे प्राह सूत्रं बादरायणनिर्मितम् ॥
भक्ति: 57 श्रीशाङ्करे भास्करेऽपि चान्त्यसूत्रावतारणे । सूत्रकर्तेति विस्पष्टो भगवान् बादरायणः ॥ स्मरन्ति चेत्यादिसूत्रे व्यासादय इतीरणात् । कृष्णद्वैपायनो नासाविति भङ्ग्याऽत्र सूच्यते ॥ स्मृतेश्चेत्यादिसूत्रेषु गीतावचनलेखनात् । ब्रह्मसूत्रपदैश्चेति गीतायामपि दर्शनात् ॥ परस्परगृहीतिस्तु विरोधायेति दृष्टितः । ब्रह्मसूत्रपदं वेदमौळिवाक्यपरं कृतम् ॥ इत्युल्लिखन्ति कतिचित् न तत्तु विदुषां मतम् । कृष्णद्वैपायनस्सूत्रकर्ता भारतकृच्च सः ॥ द्वीपे बदरिकामिश्रे बादरायणमच्युतम् । पराशरात्सत्यवती लेभे पुत्रं परंतपम् ॥ तस्यैव सूत्रकर्तृत्वं पूर्णप्रज्ञैरुदाहृतात् । स्कान्दवाक्यादपि स्पष्टं निर्णयन्ति यथा पुनः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदान् उज्जहार हरिस्स्वयम् चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैवच सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
श्रुतप्रकाशिकातत्त्वटीकयोरप्युदाहृतम् । वचस्त्विदं तथा वाचस्पतिवाक्यं निशम्यताम् ॥ ब्रह्मसूत्रकृते वेदव्यासायापरवेधसे । ज्ञानशक्त्यवताराय नमो भगवते हरेः ॥ इत्यन्यत्र प्रपञ्चोऽथ गीताकर्ताऽप्यसौ मतः । यतो भारतकर्ता सः, यद्गीतासूत्रयोर्मिथः ॥ ग्रहणं ब्रह्मसूत्रेति स्मृतेश्चेत्यातिशङ्कितम् । तत्रेदमवधातव्यं निर्णीतं तत्त्वटीकया ॥ ब्रह्मसूत्रपदैश्चेति भाविदृग्भगवद्वचः । सूत्रपश्चाद्भावि वा स्यात् न्यबध्नाद्भारते स्वयम् । सूत्रस्य विषयत्वेन वाक्यरूपा कृतिः पुनः । प्राक्तनी भाविनी वाऽत्रचोदाह्रियत इत्यतः ॥ न परस्परसंबाधः न प्रसिद्धार्थनिह्नवः । अथवाऽनादिसिद्धत्वात् स्मृतिसूत्रप्रवाहयोः ॥ परस्परगृहीतिस्तु न विरोधाय कल्पते । प्रवाहानादिवादोऽयं यं शास्त्रशरणा विदुः ॥ 10 परीक्षकमतिस्त्वेषा यादृगद्योपलभ्यते । शास्त्रमेतत्तथैवादेः कालादिति न निश्चयः ॥ सर्वे भावाः प्रतिकलं परिणामिन इत्यपि । श्रूयते दृश्यते चापि प्रबन्धे तु विशेषतः ॥
भक्तिः कतैर् व हि स्वकं ग्रन्थं आवपत्युद्धपत्यपि । बहोः कालात्प्रवक्तॄणां संप्रदाये तु किंपुनः ॥ प्रवक्तारस्तत्रतत्र जैमिन्यादिपदैरपि । प्रकाशयन्ति तत्रत्याभिप्राय़ानिति युज्यते ॥ तथाच सर्वैराचार्यैः सम्प्रदायप्रवर्तने । परिष्कृतिप्रभेदेन व्यवहारो विकल्पताम् ॥ स्मृतिसूत्रप्रवाहोऽयमनादिरिति वर्णितम् । कालेकाले संभवतां प्रायस्संकोचविस्तरौ ॥ कर्मकाण्डः देवकाण्डः ब्रह्मकाण्ड इति त्रयम् कृतं जैमिनिनैवेति चोल्लिखन्ति परे बुधाः ॥ प्रसिद्धिराद्ययोरस्ति तृतीयस्य पुनर्यथा । नैष्कर्म्यसिद्धौ नवतितमश्लोकस्थभारती ॥ जैमिनिस्सामगाचार्यस्सामवेदप्रवर्तकः । व्यासशिष्य इति स्पष्टं श्रूयते भारतादिषु ॥ कर्मकाण्डे सामवेदविचारः प्रायशस्ततः । छान्दोग्योपनिषत्सामशाखीयेति च विश्रुता । प्रायस्तदीयवाक्यानि सूत्राणां विषया इति । सूत्रभाष्यसमध्येतृविदुषामतिरोहितम् ॥ जैमिनीयं ब्रह्मसूत्रमावापोद्वापतः पुनः । पर्यष्कार्षीद्व्यास इति संदर्भेणोहितुं क्षमम् ॥
574 मानमेयरहस्यश्लोकवार्तिके अनेकेषां मतं ब्रह्मसूत्रेषूदाहृतं ततः । ब्रह्मसूत्राण्यप्यनेकान्यासन्निति च कल्प्यते ॥ एवं प्रकल्पने प्रायः भाति सर्वं सुसंगतम् । किंकिं नसंभाव्यतेऽत्र संसारेऽनादिवाहिनि ॥ 11 अथात्रैवेश्वरे वादविकल्पोऽपि विविच्यते । निर्देववादो निस्संविदैववादः पुरोदितः ॥ निरीश्वरो निर्विशेषेश्वरो वेति विकल्पना । कालं ब्रह्म विदुः केचित् स्फोटं ब्रह्म विदुः परे । कर्म ब्रह्म विदुः केचित् परेऽथ प्रकृतिं विदुः । प्रतिबिम्बैश्वर्यवादः प्रतिभासेश्वरस्तथा ॥ निष्व्यापारेश्वरः कश्चित् तथाऽन्यो निरनुग्रहः । प्रवाहेश्वरवादोऽन्यः नानेश्वर इतीतरः ॥ मूर्तित्रयेश्वरः कश्चित् तदन्यतम इत्यपि । तदुत्तीर्णविवादोऽन्यः शाक्तसौरादिकल्पनी ॥ कल्पना काचिदन्योन्यविभिन्नास्त्रय ईश्वराः । ये सत्त्वादिगुणोन्मेषभिदुरेष्वधिकारिणः ॥ कल्पेषु ते चक्रनेमिनीत्या निम्नोन्नतश्रियः । एवं बहुविधा वादाः दृश्यन्ते खल्वपीश्वरे ॥ द्विलिङ्गो द्विविभूतिश्च विष्णुर्नारायणो हरिः । श्रीपाञ्चरात्रसिद्धान्ते ह्येष ईश्वरनिर्णयः ॥
प्राप्यः परमभाग्यत्वात् निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥ बहिरन्तश्च तद्व्याप्तिः तत्र यत्रोभयं भवेत् । विभोरणोश्च न बहिर्नान्तः तस्मान्न सा तयोः ॥ प्रयोजनस्य विरहान्न कर्तैश इति ब्रुवन् । तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः ॥ निरपेक्षस्वतन्त्रस्य सहकारिमत्तस्सदा । अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥ तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः । इच्छासंतत्यनादित्वात् न च मूलक्षयः क्वचित् ॥ 12 सर्वात्मैक्यं विदुः केचिद्देवैक्यं परे विदुः । मूर्तित्रयैक्यं कतिचित् साम्यमेके प्रचक्षते ॥ तेष्वेवान्यतमस्यान्ये विबुधाः परतां विदुः । त्रिमूर्त्युत्तीर्णपरतावादिनोऽप्यपरे बुधाः ॥ स हि व्योमातीतवाद इति शास्त्रात्प्रतीयते । तत्स्वरूपं किंचिदत्र प्रसङ्गात्प्रतिपाद्यते ॥ उपादानं तु भगवान्निमित्तं तु महेश्वरः । इति व्योमातीतवादः दह्रविद्यानिरूपितः ॥ तस्मिन्यदन्तरित्यादौ तच्छब्दो व्योमतत्परः । स चाकाशो नामरूपनिर्वोढा विष्णुरुच्यते ॥
576 मानमेयरहस्यश्लोकवार्तिक तदतीतस्तदन्तस्थः स सदाशिव उच्यते । इति वादो निराकारि श्रीभाष्यादिषु सूरिभिः ॥ अतएव निमित्तत्वमुपादानत्वमित्यपि । नारायणस्यैवैकस्य श्रुत्याद्येषूपपादितम् ॥ वेदान्तवेद्यो भेदो वाऽभेदो वा द्वयात्मकताऽपिवा । कोऽर्थस्समर्थित इति चेत्सर्वं च समर्थितम् ॥ सर्वप्रकारं ब्रह्मैवावस्थितं देहिभावतः । अभेदोऽतो रक्षितस्स्यात् एवं ब्रह्मैकवस्त्वपि ॥ नानात्मचिदचिद्वस्तुप्रकारत्वादनेकधा । अवस्थितमतो भेदाभेदश्चापि समर्थितः ॥ चिदचिद्वस्त्वीश्वराणां वैलक्षण्यादसंकरात् । स्वरूपेण स्वभावेन भेदश्चापि समर्थितः ॥ वेदार्थसंग्रहे त्वस्य विस्तरः प्रतिपादितः । स व्योमातीतवादोऽपि तत्रैव सुनिरूपितः ॥ (115) प्रपत्तिः. 1 श्रुतिस्मृतीतिहासेषु प्रपत्तिर्नाम विश्रुता । तेषां तु तपसां न्यासमतिरिक्तं ततः श्रुतम् ॥ ब्रह्मणे त्वा महस ओमित्यात्मानं नियोजयेत् । अहं मुमुक्षुश्शरणं प्रपद्य इति च श्रुतम् ॥
प्रपन्न इन्द्र शरणं सर्वस्य शरणं सुहृत् । इत्यादयः श्रुतिशतं विश्रुतं शरणागतौ ॥ स्मृतीतिहासवचनमनन्तं प्रथितं विदाम् । अतस्त्रैवर्णिकत्वादेः भावोऽभावोऽपि कस्य चित् ॥ नाधिकारः प्रपत्तौ स्यादार्किंचन्यमनाश्रितः । येषां तु भगवद्गीता प्रमाणमिति सम्मता ॥ प्रपत्तिस्साधनं मुक्तेरिति तैरखिलैर्मता । सा परंपरया हेतुरिति सर्वैर्विनिश्चिता ॥ साक्षादपि भवेद्धेतुरिति श्रीवैष्णवा विदुः । प्रपत्तिः द्विविधा तस्मात् स्वतन्त्राङ्गविभेदतः ॥ यद्येन कामकामेन न साध्यं साधनान्तरैः । तेनतेनाप्यते तत्तन्न्यासेनेव महामुने ॥ परमात्मा च तेनैव साध्यते पुरुषोत्तमः । भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ॥ प्राप्योऽहं नान्यथा प्राप्यः मम कैङ्कर्यलिप्सुभिः । इत्यादिकं वचोऽनन्तं भगवच्छास्त्रविश्रुतम् ॥ 2 अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः ॥ मुनिना भरतेनेत्थं प्रपत्तेर्लक्षणं कृतम् । त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ॥ M.R. 73
७८ मानमेयरहस्यश्लोकवार्तिके शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । आत्मात्मीयभरं सर्वं स्वात्मानं च समर्पयेत् ॥ इत्यादिवचनानां च परामर्शेन देशिकैः । निष्कृष्यात्रायमेषोऽर्थः विशदीक्रियते यथा ॥ आकिञ्चन्यभरन्यासोपायत्वप्रार्थनात्मनाम् । त्रयाणां सौहृदं सूक्ष्मं यः पश्यति स पश्यति ॥ मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम् । अकिंचने भरन्यासस्त्वधिकोऽङ्गितया स्थितः ॥ अत्र रक्षाभरन्यासस्समस्सर्वफलार्थिनाम् । स्वरूपफलनिक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम् ॥ स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम् । त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्यात्मसमर्पणम् ॥ भरन्यासप्रधानो यस्सर्वान्वयविवर्जितः । तच्छेषत्वानुसंधानविशेषः शरणागतिः ॥ ३ साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्थता चैव प्रपत्तिरिति गीयते ॥ उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥ उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी
प्रारब्धकर्मावधिको मोक्ष उक्त उपासितुः । दृप्तस्य देहावधिकः आर्तस्यार्त्यवधिर्मतः ॥ इयं केवललक्ष्मीशोपायत्वप्रार्थनात्मिका । स्वहेतुत्वधियं रुन्धे किंपुनस्सहकारिणाम् ॥ शास्त्रार्थज्ञानवेलायामुपायत्वेन निश्चितः । अनुष्ठानदशायां तूपायबुद्धिं परित्यजेत् ॥ 4 फलं संगं च कर्तृत्वमुपायत्वं च संत्यजेत् । सात्त्विकत्याग एष स्यात् इति श्रीभगवान् जगौ ॥ साङ्गं ससात्त्विकत्यागं कुर्याद्भरसमर्पणम् । अन्यथा विधिकोपस्स्यात् चेतनोऽचेतनो भवेत् ॥ सर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वात् रक्ष्यापेक्षां प्रतीक्षते ॥ आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा ॥ कार्पण्यं चेति पञ्चाङ्ग आत्मनिक्षेप इष्यते । पञ्चानामपिचाङ्गानामिदं विवरणं मतम् ॥ चराचराणि भूतानि सर्वाणि भगवद्वपुः । अतः तदानुकूल्यं मे कर्तव्यमिति निश्चयः ॥ अन्तःस्थितस्स भगवान् सर्वेषामिति निश्चयात् सर्वभूतेषु च सदा प्रातिकूल्यं विवर्जयेत् ॥
80 मानमेयरहस्यश्लोकवार्तिके कार्पण्येनाप्युपायानां विनिवृत्तिर्विवक्षिता । रक्षिष्यतीतिविश्वासात् अभीष्टोपायकल्पना ॥ गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् । शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥ पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा । प्रपत्तिसंग्रहस्त्वित्थं अनुष्ठानक्रमस्त्वसौ ॥ 5 अहं मद्रक्षणभरः मद्रक्षणफलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः ॥ न्यस्याम्यकिंचनः श्रीमन् अनुकूलोऽन्यवर्जितः । विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ॥ स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधिया स्वार्थे स्वस्मिन्न्यस्यसि मां स्वयम् श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः । एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् । निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव । नित्यं निरपराधेपु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ मां मदीयं च निखिलं चेतनाचेतनात्मकम् । स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर । न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ अकृत्यानां च करणं कृत्यानां वर्जनं च मे । क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् । अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः । वेदान्तदेशिकन्यासदशकं लिखितं न्विदम् । रहस्यत्रयसारे तु महीयान् न्यासविस्तरः ॥ (116) न्यायसिद्धान्तः. 1 प्रायः प्रपञ्चितस्सर्वैतरसिद्धान्तसंग्रहः । अथ नैयायिकोक्तीनां संग्रहोऽपि निशाम्यताम् ॥ न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः । न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥ तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः । विषसंपृक्तमधुमत् सर्वं दुःखीभवत्यदः ॥ सुखाधिगमलोभेन यतमानो हि पूरुषः । सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥ 2 एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् । सर्वोत्पत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥
582 मानमेयरहस्यश्लोकवार्तिके निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः । क्लेशकर्मप्रहाणादिद्वारो निश्श्रेयसोदयः ॥ यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखनिवृत्तिर्नावकल्पते ॥ धर्माधर्मौ निमित्तं हि संभवे सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् । नात्मनस्सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ अनिष्टोपरमार्थस्स्युरपवर्गप्रवृत्तयः । सन्तः प्रयतमाना हि दृश्यन्ते व्याधिशान्तये ॥ चिरज्वरशिरोर्त्यादिव्याधिदुःखेन खेदिताः । सुखिनो वयमद्येति तदपाये प्रयुञ्जते ॥ 3 मोक्षे नित्यसुखं येषां कामं देहेन्द्रियाद्यपि । नित्यं प्रकल्प्यतां तेषां मोक्षो रम्यतरो भवेत् । यदत्र किरणावल्यामुक्तं तदवधार्यताम् । सत्त्वशुद्धिमुखात्कर्म स्यादारादुपकारकम् ॥ ज्ञानं तु सन्निपत्योपकारकाङ्गमितीष्यते । तुल्यकक्षतया कर्मज्ञानयोर्न समुच्चयः ॥ 4 इत्युक्तं, दुःखजन्मादेरुत्तरोत्तरनाशतः । अनन्तरापायमार्गादपवर्गसमुद्भवः ॥