मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 622, कुल 672 में से
संदर्भ में पढ़ें80 मानमेयरहस्यश्लोकवार्तिके कार्पण्येनाप्युपायानां विनिवृत्तिर्विवक्षिता । रक्षिष्यतीतिविश्वासात् अभीष्टोपायकल्पना ॥ गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् । शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥ पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा । प्रपत्तिसंग्रहस्त्वित्थं अनुष्ठानक्रमस्त्वसौ ॥ 5 अहं मद्रक्षणभरः मद्रक्षणफलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः ॥ न्यस्याम्यकिंचनः श्रीमन् अनुकूलोऽन्यवर्जितः । विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ॥ स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधिया स्वार्थे स्वस्मिन्न्यस्यसि मां स्वयम् श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः । एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् । निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव । नित्यं निरपराधेपु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ मां मदीयं च निखिलं चेतनाचेतनात्मकम् । स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥