भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 623, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 623

त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर । न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ अकृत्यानां च करणं कृत्यानां वर्जनं च मे । क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् । अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः । वेदान्तदेशिकन्यासदशकं लिखितं न्विदम् । रहस्यत्रयसारे तु महीयान् न्यासविस्तरः ॥ (116) न्यायसिद्धान्तः. 1 प्रायः प्रपञ्चितस्सर्वैतरसिद्धान्तसंग्रहः । अथ नैयायिकोक्तीनां संग्रहोऽपि निशाम्यताम् ॥ न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः । न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥ तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः । विषसंपृक्तमधुमत् सर्वं दुःखीभवत्यदः ॥ सुखाधिगमलोभेन यतमानो हि पूरुषः । सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥ 2 एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् । सर्वोत्पत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥