भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

मुक्तात्मविकल्पः 543

आकल्पस्थायिपक्षे तु मोक्षशास्त्रं हि निष्फलम् । आमोक्षस्थायितायां तु मोक्षस्य न पुमर्थता ॥ तस्माच्चतुर्विधैरेष पुरुषार्थैर्यथायथम् । समन्वयं प्राप्तुमर्हः स्वीकर्तव्य इति स्थितम् ॥ मद्धिनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् । इति नैव प्रवृत्तिस्स्यात् आत्मानश्चेद्विनाशिनः ॥ निरस्ताखिलदुःखोऽहमनन्तानन्दभाक्स्वराट् । भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥ अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥ मयि नष्टेऽपि मत्तोऽन्यस्तम्भः कुम्भश्च तिष्ठति । इति स्वस्य शिरश्छेदः पुरुषार्थो न कस्यचित् ॥ ननुचात्महनो लोके पुरुषास्सन्ति चेन्न ते । विवेकिनः किन्तु मूढाः क्रोधान्धहृदया इति ॥ आत्मानो यद्यनित्यास्स्युः कृतहानाकृतागमौ । स्यातामिति मतं तेषामात्मनित्यत्ववादिनाम् ॥ स्योदन्यथा पापपुण्यविप्लवश्शास्त्रविप्लवः । प्रपञ्चविप्लवस्तस्मात्सर्वेषामात्मनित्यता ॥ सर्वथा साधनीयेति सर्वशास्त्रार्थसंग्रहः । इदमेव ह्यास्तिकत्वं नास्तिकत्वं विपर्ययः ॥

(111) कर्मनिवृत्तिवादः. 1 मुक्तिर्हि कर्मणो मोक्षः कर्मतत्त्वं विबुद्ध्यताम् । पुण्यं पापमिति द्वेधा लोके कर्म हि विश्रुतम् ॥ पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम् । सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम् ॥ इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम् । शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥ अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः । प्राभाकरास्तु वाक्यार्थं नियोगं तत्प्रचक्षते ॥ स भावनाविशेषस्स्यादात्मस्थ इति निर्णयः । कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम् ॥ बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः । धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ॥ आराध्यदेवताप्रीतिं बादरायणवर्त्मगाः । आचक्षते धर्मगिरा सौगताश्चित्तवासनाम् ॥ 2 इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः । तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम् ॥ नन्वात्मदर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम् । अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम् ॥ अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः । कथं फलमदत्त्वैव प्राक्तनं कर्म शाम्यति ॥

कर्मनिवृत्तिवादः ५४ कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् । तथाऽल्पफलदानं च राजपुत्रापराधवत् ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । इत्यादीनि वचांस्यत्र प्रमाणमुपलभ्यते ॥ ३ तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधाः । तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः ॥ बन्धश्चित्तगतो येषामात्मा कूटस्थलक्षणः । तेषां तु कापिलादीनां चित्तनाशेन मोक्षणम् ॥ दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः । भोगापवर्गार्थतायां कृतायां तन्न दृश्यते ॥ आविद्यकं कर्म येषामविद्यावादिनां मतम् । स्वप्रप्रबोधन्यायेन विद्यायां तत्परिक्षयः ॥ तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम् । साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः ॥ केचित् श्रुतिमयीं केचिदाहुर्वाक्यार्थधीमयीम् । एवं बहुविधा वादाः मायामभ्युपगच्छताम् ॥ ४ कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः । प्रशस्तपाददेवेन सूचितं भाष्यसागरे ॥ केषांचियोगिनां शान्तिसंतोषस्सुखलक्षणः । दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति ॥ M.R. 69

546 मानमेयरहस्यश्लोकवार्तिके सौभर्यादिन्यायाद्वाऽपि नानादेहपरिग्रहात् । सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन ॥ नित्यं नैमित्तिकं कर्म कर्तव्यं ज्ञानिनामपि । अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे ॥ 5 नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत् । प्रायश्चित्तनयाच्चेति बृहट्टीकाकृतां मतम् ॥ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥ अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः । धर्मेणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः ॥ इत्यादीनि वचांस्यत्र प्रमाणानि परश्शतम् । प्रतिपद्य विनिर्णीतः मुक्त्यै कर्मपरिक्षयः ॥ 6 तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये । उत्तरप्रचयाभावात् विदुर्मुक्तिं कुमारिलाः ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ 7 सर्वाणि पूर्वकर्माणि संभूयैकं शरीरिणाम् । शरीरमारभन्तेऽतः प्रारब्धान्नास्ति संचितम् ॥ स चैकभविकः पक्षः पातञ्जलमतादृतः । तं नाद्रियन्ते बहवः कर्मशेषवचश्शतैः ॥

8 ज्ञानाग्निना कर्मनाशः वासुदेवस्य सम्मतः । नानुयोगस्यावकाशः पुमर्थे शास्त्रलक्षणे ॥ ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन । नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥ 9 मिथ्याज्ञानं च दोषाश्च कर्मणस्सहकारिणः । तद्वैकल्येन सन्त्येव न फलन्तीति गौतमाः ॥ 10 समाराध्योऽपराध्यो वा भगवान् सर्वकर्मणाम् । तस्मिन् प्रसन्ने किं साध्यं न भवेदिति सेश्वराः ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 11 एवमाद्यं सुप्रसिद्धमथ वैयासिके मते । माहात्म्यं ब्रह्मविद्यायाः फलाध्याये प्रदर्शितम् ॥ अश्लेषश्च विनाशश्च स्यातामुत्तरपूर्वयोः । तत्र पूर्वे अनारब्धकार्ये एवेति निर्णयः ॥ भोगेनैव क्षेपणीये प्रारब्धे कर्मणी इति । यत् श्रूयते शत्रुमित्रोपायनं कर्मणोरिदम् ॥ समानविषयं ज्ञेयं तदश्लेषविनाशयोः । कालभेदस्त्वेतदीयावस्थाभेदनिबन्धनः ॥ अनुग्रहो निग्रहो वा क्रमादेव हि लौकिकः । वर्धते क्षीयते तद्वदीश्वरीयोऽप्यलौकिकः ॥

48 मानमेयरहस्यश्लोकवार्तिके (112) कर्मज्ञानसंबन्धः 1 एवं कर्मनिवृत्तौ च विकल्पे परिनिष्ठिते । ये संबन्धविकल्पास्स्युस्त एते ज्ञानकर्मणोः ॥ कर्मैव केवलं काम्यं केषांचिन्मोक्षसाधनम् । कैश्चित्तु नित्यं कर्मैव मोक्षसाधनमिष्यते ॥ स चैकभविकः पक्षः कामकर्म हि जन्मनः । कारणं, तदभावे तु मुच्यते हेत्वभावतः ॥ केषां चिन्नित्यमेवैतत् कर्म पापविनाशकम् । पापक्षयादेव मुक्तिः अभावो मोक्षकारणम् ॥ कापिलाः ज्ञानमेवैकं मोक्षसाधनमभ्यधुः । ज्ञानं कर्म च केषांचिद्धेतुस्समसमुच्चितम् ॥ अनिष्टस्य निवृत्तिश्च तथेष्टप्राप्तिरित्यपि । यदि स्यात् द्विदलो मोक्षः द्वितयं साधनं भवेत् । तच्च कर्म ज्ञानमिति क्रमात्साधनमिष्यते । इति भेदाभेदवादियादवप्रमुखा विदुः ॥ बृहट्टीकाकृतश्चेति राणके प्रतिपादितम् । उपवर्षादयोऽप्येवमितिचाद्वैतिनो विदुः ॥ यद्यनिष्टनिवृत्तिर्वा तथेष्टप्राप्तिरेव वा । मोक्षस्यैकप्रकारत्वे साधनं तादृशं भवेत् ॥ मोक्षो निरवधिः प्रीतिः स स्वर्ग इति ये विदुः । ... मीमांसकास्तेषां साधनं कर्म केवलम् ॥

कर्मज्ञानसंबन्धः 54 अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः । सर्वे ज्ञानैकसाध्यं तं मोक्षमाहुर्मनीषिणः ॥ तेषामनिष्टमज्ञानं तन्निवृत्तिरभीप्सिता । मोक्षः स्वतस्सिद्ध एव साध्यश्चेन्नश्यति ध्रुवम् ॥ परीक्ष्यलोकानित्यादिवेदान्ते प्रतिपादितम् । यामिमां पुष्पितां वाचमित्याद्यायां स्मृतावपि ॥ 2 ज्ञानस्य चाङ्गं कर्मेति कर्मणोऽङ्गं च धीरिति । तत्रापि च विशेषांशः एषोऽयमवधार्यताम् ॥ कर्म ज्ञानं द्वयं चापि स्यादारात्सन्निपत्य च । क्रमादङ्गमिति प्राहोदयनः किरणावळौ ॥ ज्ञानाङ्गकं च कर्मैव केषांचित् मोक्षसाधनम् । क्रत्वङ्गकर्तृसंस्कारो ज्ञानमित्यपरं मतम् ॥ कर्माधिकारसिद्ध्यर्थं शरीरान्यस्थिरात्मनः । विज्ञानमिति केषांचिन्मतं ज्ञानाङ्गवादिनाम् ॥ भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः । मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियास्सुधीः ॥ वेदोत्तरास्स्युर्वेदान्ता इति केचित्प्रचक्षते । ते पुनर्निगमान्तानामुपच्छन्दनवादिनः ॥ शेषत्वादिति सूत्रेण सर्वमेतद्विवक्षितम् । कर्माङ्गकं ज्ञानमेव मोक्षहेतुं विदुः परे ॥

तत्रारादुपकाराङ्गं भास्करादिमतं विदुः । सन्निपत्योपकाराङ्गं प्राहू रामानुजादयः ॥ आरादेवोपकुर्वन्ति क्रियाश्चित्तविशुद्धितः । इति सौरेश्वरं वाक्यं श्रुतं संबन्धवार्तिके ॥ कर्मणां कामविलयद्वारा धीशेषतोदिता : स कामध्वंससिद्धान्तः प्रायः कापिलसंमतः ॥ प्रपञ्चविलयद्वारा धीशेषत्वं विदुः परे । काण्डद्वयाविरोघाय नानामार्गविकल्पना ॥ ३ तमेतमिति शास्त्रेण वेदनाकामनार्थता । कर्मणामिति भामत्याचार्यसिद्धान्तपद्धतिः ॥ अथ स्याद्वेदनेच्छायां यज्ञानुष्ठानमिष्यते । अनुष्ठानाद्वेदनेच्छेत्यन्योन्याश्रयतेति चेत् ॥ इच्छा हि द्विविधा काचिद्विषयोन्मुख्यलक्षणा । उत्कटा रुचिरन्या स्यात् बुभुक्षादिषु दृश्यते ॥ अन्नद्वेषात्कृशो लोके तदौन्मुख्याच्चिकित्सने । प्रवर्ततेऽथ तद्रुच्या भोजनेऽपि प्रवर्तते ॥ येऽप्यत्र वेदनार्थत्वमाहुर्विवरणानुगाः । तैर्ज्ञानकामनान्तैव कर्मानुष्ठितिरिष्यते ॥ इयान्विशेषस्त्वनयोः संग्रहीतृनिरूपितः । विद्योत्पत्तेरनियमनियमाविति हि क्रमात् ॥

आद्यो विविदिषार्थस्स्यात् संस्कारार्थोऽपरो मत स एव सन्निपत्योपकाराङ्गमिति कीर्त्यते ॥ सर्वज्ञात्ममुनिः कर्म काम्यमित्यपि मन्यते । नित्यमेवेति बहवः काम्यविद्वेषिणो हि ते ॥ विशिष्टाद्वैतसिद्धान्ते सिद्धान्ते द्वैतिनामपि । भास्कराणामपि तथा भेदाभेदविदामपि ॥ जरन्मायाविदां ध्याननियोगविदुषामपि । आप्रयाणं चाहरहः कर्मकर्तव्यतेष्यते ॥ तदेतत्संनिपत्योपकाराङ्गे पर्यवस्यति । तत्त्वं करणनिष्पत्तिसाधनत्वात्मकं यतः ॥ तत्र भास्करसिद्धान्ते कर्मारादुपकारकम् । निष्पन्नं करणं यत्तु तस्य स्यात्सहकार्यदः ॥ फलोत्पत्ताविति ततश्चादृष्टद्वारं तु तत् । तत्समुच्चयपक्षस्तु बृहट्टीकाकृता मतः ॥ तथा यादवभाष्येऽपि साध्यद्विदलशालिनि । नैयायिकादिसिद्धान्तोऽप्येतं पन्थानमाश्रितः ॥ परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् । इत्यादिवचनं तत्त्वचिन्तामण्यादिषु स्फुटम् ॥ 4 जरन्मायाविदश्चापि द्विविधाः परिकीर्तिताः । भर्तृप्रपञ्चादयः स्युस्ते प्राय इति निर्णयः ॥

552 मानमेयरहस्यश्लोकवार्तिके एके ध्याननियोगस्य वादिनस्तत्र कीर्तिताः । निष्प्रपञ्चीकृतेरेव नियोगमपरे विदुः ॥ वेदान्तवाक्यं न परिनिष्पन्नब्रह्मगोचरम् । तथापि सिद्ध्यति ब्रह्म तद्ध्यानविधिशक्तितः ॥ तत्र ध्याननियोगेन तत्साक्षात्कारमार्गतः । अद्वितीयब्रह्मभावरूपो मोक्षः फलिष्यति ॥ 5 निष्प्रपञ्चनियोगस्य वादिनामयमाशयः । यद्यप्युपनिषद्वाक्यं कार्यवस्त्वेकगोचरम् ॥ निष्प्रपञ्चं ब्रह्मवस्तु विशिष्टं साध्यमेव तत् । प्रपञ्चविलयद्वारा कार्यताऽस्योपपद्यते ॥ न दृष्टेरित्यादिवाक्यं विधिस्तत्र निदर्श्यते । निष्प्रपञ्चं ब्रह्म कुर्यात्सप्रपञ्चतया मतम् ॥ सर्वे नियोगनिष्पत्तिपर्यन्तं कर्मलक्षणम् । तत्रारादुपकाराङ्गं स्वीकुर्वन्तीति च स्थितम् ॥ 6 सर्वः कर्मविधिः कैश्चित्स्वतन्त्रैर्ब्रह्मवादिभिः । आत्मविज्ञानाधिकारप्रयोजन इतीरितः ॥ तेषामाशयसारोऽयं ग्राह्यो विधिविवेकतः । स्वभावतस्तु पुरुषाः रागाद्याविष्टमानसाः ॥ विषयोपार्जने सक्ताः दृष्टोपायफलैः सदा । व्याक्षिप्तमानसा नालमात्मानमिह वेदितुम् ॥

कर्मज्ञानसंबन्धः 553 उपदिष्ट मपिप्राज्ञैः परिभावयितुं कुतः । तस्मात्कर्मोपदेशाद्यैरनुशिष्टोऽष्टवर्षकः ॥ कर्मपद्धतिनिर्वद्धः स्वाभाविकपथाच्च्युतः । उपदिष्टं चात्मतत्त्वं ग्रहीतुं ध्यातुमर्हति ॥ तस्मात्कर्मविधिसर्वः प्रलोभः परमार्थतः । आत्मविज्ञानाधिकारसिद्धयर्थ इति निर्णयः ॥ एष प्रच्छन्नचार्वाकमतसारांश इत्यपि । प्रदूषितः ब्रह्मकर्मवेदिभिः क्रान्तदर्शिभिः ॥ 7 कामप्रध्वंससिद्धान्तः यः पूर्वोत्तरकाण्डयोः । विरोधपरिहाराय जरन्मायाविदां मतः ॥ निमित्तवादे प्राचीने प्रायशः पर्यवस्यति । फलसंयोगवादे तु काम एवाभिवर्धते ॥ स्वर्गकामो यजेतेति निमित्तं कामना मता : परस्वकामुकः प्रायश्चित्तं कुर्याद्यथा तथा ॥ धनधान्यसमृद्धिस्तु यदा पुंसां भविष्यति । तदा सुखेच्छा भवति तच्छान्त्यै यागशासनम् । यागे च सर्वद्रव्याणि व्ययितानि भवन्ति हि । अतएव त्रिवर्षान्नैर्यष्टव्यमिति शिष्यते ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ M. R. 70

554 मानमेयरहस्यश्लोकवार्तिके त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः । योऽनाहिताग्निशतगुः अयज्वा च सहस्रगुः ॥ तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् । मानवं याज्ञवल्क्यीयं दृश्यते हि वचस्त्विदम् ॥ निमित्तपरता चैषा श्रुतिस्वारस्यशालिनी । फलतत्परतायां तु कामना स्वरसा भवेत् ॥ 8 द्रष्टव्योऽस्य न्यायरत्नमालायां विस्तरः कृतः । निमित्तवादिनः सर्वं कर्म नैमित्तिकं विदुः ॥ केचित्तु सकलं कर्म विदुः काम्यमितीरितम् । नित्यमेवेत्याहुरेके निषिद्धमपरे विदुः ॥ नित्यं नैमित्तिकं काम्यं निषिद्धं चेति कर्म तत् चतुर्धा व्यभजन् धीराः जैमिनिप्रमुखाः परे ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ इति कौमारिलाः प्राहुः काम्यमेकेऽनुजानते । निषिद्धवर्जितं सर्वं फलसङ्गविवर्जितम् ॥ चित्तस्य शुद्धयर्थमिष्टं शुद्धौ त्याज्यं विदुस्ततः जातायां वेद्नेच्छायामधिकारो निवर्तते ॥ अधिकारिविभेदेन वेदप्रामाण्यरक्षणम् । कूटकार्षापणन्यायात् कैश्चित् तन्नानुमन्यते ॥

(113) मोक्षसाधनम्. 1 लोकायतमते देहविच्छेदे मोक्षलक्षणे । स्वभावस्साधनं यस्मात्ते ह्याकस्मिकताविदः ॥ आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः । स्वदेह एव दैवं स्यादन्यद्दैवं न विद्यते ॥ देवादिपदवाच्यास्स्युः प्रतिमा मृच्छिलामयाः । अतएवहि देवास्स्युरमरा निर्जरा अपि ॥ अस्वप्ना नित्यतृप्ताश्च नाश्रन्ति न पिबन्त्यपि । अपुत्राश्चाप्यनिमिषाः त्रिदशा अपि विश्रुताः ॥ देवालयः स्थानमपि सदा सुमनसश्च ते । महान् चतुर्भुजादिस्स्याद्विग्रहः परमेश्वरः ॥ तथैव लौकिको राजा परमेश्वर उच्यते । तस्यानुवर्तनं कार्यं उत्तमां भूतिमिच्छता ॥ अरोगदृढगात्रत्वं सुखस्योत्तमकारणम् । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ इति चार्वाकसिद्धान्तः प्रत्यक्षस्सार्वलौकिकः । अथार्हतानां सिद्धान्ते मोक्षसाधनसंग्रहः ॥ 2 सम्यग्दर्शनचारित्रश्रद्धानं मोक्षसाधनम् । इत्यर्हदुक्तिसंक्षेपपरमागमसंग्रहः ॥ यथाऽवस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥

6 मानमेयरहस्यश्लोकवार्तिके सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥ रुचिर्जिनोक्ततत्त्वेषु सम्यक्श्रद्धानमुच्यते । जीवात्मानस्तु सहजचिद्रूपपरिणामिनः ॥ स्वरूपस्फुरणं सर्वेऽप्यजाड्यं प्रायशो विदुः । परिणामि भवेत् ज्योतिः पौरुषं विषयांस्पृशत् ॥ रूपादिज्ञानरूपेण स चास्रव इतीर्यते । आस्रवस्य निरोधो यः संवरो गुप्तिलक्षणः ॥ आस्रवस्रोतसो द्वारं संवृणोतीति संवरः । आस्रवो भवहेतुस्स्यात् संवरो मोक्षकारणम् ॥ लुञ्चिताः पिञ्छिकाहस्ताः पाणिपात्रा दिगम्बराः । श्वेताम्बराः क्षमाशीलाः निस्सङ्गाः भैक्षभोजिनः॥ एवंरूपाः कायशोषनिरता जैनसाधवः । अद्यापि न निवर्तन्ते त्वलोकाकाशमागताः ॥ ज्ञानं तपःप्रधानं स्यादेतेषां मोक्षसाधनम् । प्रायेण भौतिको बन्धः तपसैव हि शुद्ध्यति ॥ 3 तथा माहेश्वरे तन्त्रे मोक्षमार्गो निरूपितः । चतुर्विधा हि ते सिद्धचर्यामार्गानुसारिणः ॥ यथा कापालिकाः कालामुखाः पाशुपतास्तथा । शैवास्तत्रच कापालं मतमेवं प्रचक्षते ॥

मुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात् । अपवर्गफलप्राप्तिर्न ब्रह्मावगमादिति ॥ मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ॥ कर्णिकां रुचकं चैव कुण्डलं च शिखामणिम् । भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तिते । आभिर्मुद्रितदेहस्तु न भूय इह जायते ॥ 4 गीतशास्त्रं मोक्षहेतुरित्यप्याहुर्मुनीश्वराः । याज्ञवल्क्यादयस्तत्र वचनं त्ववधार्यताम् ॥ अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः यथाविधानेन पठन् सामगानमविच्युतम् । सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा । औवेणुकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । कालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥

558 मानमेयरहस्यश्लोकवार्तिके गीतज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ इमं सिद्धान्तमालम्ब्य नृत्तगतिरैलंकृतम् । इति पाराशरं वाक्यं व्याख्यातं माधवैर्यथा ॥ मुमुक्षवो हि यक्षाद्याः नृत्तगीतादिभिः पुनः । ईश्वरं भजमानाश्च यत्र तिष्ठन्ति चाश्रमे ॥ इत्यतो गीतशास्त्रं हि चित्तैकाग्र्यं च साधयत् । अनायासेन मोक्षस्य मार्ग इत्यृषयो विदुः ॥ 5 अथ सौगतसिद्धान्ते मोक्षसाधनमुच्यते । आत्मनो नित्यतायां तु नैवास्थायाः परिक्षयः ॥ दुःखं स्वलक्षणं शून्यं सकलं क्षणिकं जगत् । एवं भावयतः तत्त्वसाक्षात्कारोदयः स्वयम् ॥ अनुकूलं चानुगतं सत्यं स्थिरमिति भ्रमाः । निरुक्तभावनानाश्याः भवबन्धस्य हेतवः ॥ सोऽयं विमलविज्ञानमहोदय इतीर्यते । रागादिज्ञानसंतानवासनोच्छेदसंभवा ॥ तदवान्तरभेदाश्च मोक्षतत्त्वे निरूपिताः । मोक्षभेदानुगुण्येन तत्साधनाविकल्पना ॥ कृत्तिः कमण्डलुः मौण्ड्यं चीरं पूर्वाह्नभोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्रिये बौद्धभिक्षुभिः ॥

मोक्षसाधनम् ५५९ अज्ञानादिह संसारः ज्ञानादेव परिक्षयः । प्रधानसाधनं मोक्षे ज्ञानमेते प्रचक्षते ॥ तच्च साक्षात्काररूपमित्यत्र न विकल्पना । बन्धस्य कारणं यस्मात्साक्षात्कारात्मको भ्रमः ॥ ६ तत्सत्त्वपुरुषान्यत्वख्यातिस्स्यादिति कापिलाः । ईश्वरप्रणिधानं वा तत्तु पातञ्जला विदुः ॥ स तत्त्वनिर्णय इति गम्भीरन्यायवेदिनः । ईश्वरोपासनं वा स्यात्सादृश्यादिति केचन ॥ तत्त्वदृष्टिर्मुक्तिहेतुस्स्यान्निरीश्वरवादिनाम् । तत्त्वधीमूलकोपास्तिः स्वतन्त्रेश्वरवादिनाम् ॥ ७ अविद्यया तु संसारो विद्यया मोक्षसंभवः । इति सामान्यतस्सिद्धेऽप्यत्र सूक्ष्मं विदुर्विदः ॥ तत्त्वनिर्णयमात्रेण नाविद्या विनिवर्तते । अविद्येश्वरस्याज्ञामतिवर्त्य प्रवर्तनात् ॥ तन्निग्रहोपशान्त्यर्थं तदुपासनमिष्यते । तस्यैव साधनं तत्त्वनिर्णयो न तु मुक्तये ॥ ८ सामान्यतस्तत्करणविकल्पोऽत्र विविच्यते । प्रसंख्यानं विदुः केचित्प्रत्ययाभ्यासलक्षणम् ॥ तच्च ध्यानं भावना सा सैवोपास्तिः ध्रुवा स्मृतिः प्रसंख्यानेन सहितं मन एवेति के चन ॥

वाक्यमेवापरोक्षस्य करणं केचिदब्रुवन् । तत्र ध्यानापूर्वयुक्तं वाक्यं केचन मन्वते ॥ ध्यानयुक्तं वाक्यमेव नापूर्वमिति केचन । विषयस्यापरोक्षत्वात्तादृग्वाद इतीतरे ॥ भावनायाः प्रकर्षेण परे ध्यानं तु तादृशम् । वैशद्यातिशयात्साक्षात्कारवाग्गोचरं विदुः ॥ अन्ये तु तद्दिव्यदृष्टिलाभात्साक्षात्कृतिं विदुः । श्रवणं मननं ध्यानमथ दर्शनमेववा ॥ अधिकारानुरोधेन विकल्प इति यादवाः । अतश्च्रुतिमयी चिन्तामयी वा भावनामयी ॥ साक्षात्कारवती चेति प्रतिपत्तिर्विकल्पिता । कथेयं महती सर्वशास्त्रेष्वस्यास्ति विस्तरः ॥ १ मोक्षस्य साधनं सर्वसम्मतं तत्त्वदर्शनम् । तत्त्वदर्शनं यावदात्मभावीति ये विदुः ॥ ते सन्तु ये तु तस्यापि ज्ञानस्योपशमं विदुः । तेषां मतविकल्पोऽयं संक्षेपादवधार्यताम् ॥ यथाच कातको रेणुः यथा दग्धायसोदकम् । यथावा दग्धदहनः त्रिवृत्पानं यथाऽपिवा ॥ यथाच कनकारूढं रजतं कल्मषापहम् । स्वयं निवर्तते तद्वत् ज्ञानशान्तिं विदुर्बुधाः ॥

मोक्षसाधनम् 56 अन्ये तु ब्रह्मविज्ञानमज्ञानस्य निवर्तकम् । उपादानविनाशेन प्रपञ्चोऽपि विनश्यति ॥ ब्रह्मज्ञानं तदन्तःस्थं तत एव विनश्यति । साक्षात्पारंपर्यतो वा मिथ्यात्वं ज्ञानबाध्यता ॥ वेदान्तवाक्यजनितं नियमादृष्टसंयुतम् । ब्रह्मज्ञानं तदज्ञाननिवर्त्तकमितीतेरे ॥ अन्यैस्तु तत्त्वमस्यादिवाक्यजात्मैक्यशेमुषी । बाधते भेदविषयं मूलाज्ञानमितीर्यते ॥ प्रकाशनाश्यं ह्यज्ञानं जडरूपान्न नश्यति । इतीतरे तदारूढचैतन्यान्नाशमभ्यधुः ॥ तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिः तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं योजयन्त्यपि ॥ 10 जातेऽपि ब्रह्मविज्ञाने प्रतिभासोऽनुवर्तते । अविद्योपादानलेशात् जीवन्मुक्तिस्ततः स्मृता ॥ तत्र लेशपदार्थस्तु बुधैरेवं विकल्प्यते । विक्षेपशक्तेरंशोऽयमिति केचित्प्रचक्षते ॥ अविद्यासंस्कार इति परे लशुनगन्धवत् । दग्धवस्त्रनयान्मूलाविद्यैवेत्यपरे विदुः ॥ सर्वज्ञात्ममुनिर्जीवन्मुक्तिपक्षं निषेधति । स्याच्चेज्जीवन्मुक्तिशास्त्रं अर्थवादो भवेदपि ॥ M.R. 71

562 मानमेयरहस्यश्लोकवार्तिके

श्रवणादिविधेरेवेत्याशयं वर्णयत्यसौ । अथाविद्यानिवृत्त्यंशे विकल्पोऽप्यवधार्यताम् ॥ 11 अविद्याया निवृत्तिस्तु ब्रह्मेति ब्रह्मसिद्धिकृत् । आनन्दबोधाचार्यास्तु ब्रह्मान्येति प्रचक्षते ॥ न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः । यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन् ॥ न सती साऽद्वैतहानेः नासती ख्यातिसंभवात् । विरोधान्नोभयात्मेयं नानिर्वाच्याऽनवस्थितेः ॥ उक्तप्रकारोत्तीर्णेयं अवस्था पञ्चमी मता । चतुष्कोटिविनिर्मुक्तशून्यतत्त्वविलक्षणा ॥ अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् । निवृत्तिपञ्चमाकारां कल्पयन्ति विपश्चितः ॥ अद्वैतविद्याचार्यास्तु साऽनिर्वाच्येति मन्वते । सच भावविकारोऽन्यः क्षणिकः नानुवर्तते ॥ प्रथमक्षणसंबन्धो यथोत्पत्तिः तथैव सा । चरमक्षणसंबन्धः क्षणिकः नानुवर्तते ॥ 12 जीवैक्यपक्षे मुक्तिस्तु शुद्धब्रह्मैकरूपता । अनेकजीववादेऽपि प्रतिबिम्बो यदीश्वरः ॥ मुक्तस्य शुद्धचैतन्यरूपैवावस्थितिर्मता । ईश्वरो यदि बिम्बात्मा प्रतिबिम्बः पुमान्यदि