मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 625, कुल 672 में से
संदर्भ में पढ़ेंन्यायसिद्धान्तः 583 तत्त्वज्ञानेन मिथ्याधीवासनानाशसंभवः । तन्नाशेन विनश्यन्ति रागादिदोषलक्षणः ॥ पुण्यापुण्यात्मिका नश्येत्प्रवृत्तिस्तद्विनाशतः । अप्रवृत्तौ नैव जन्म देहसंबन्धलक्षणम् ॥ जन्माभावे च दुःखानामनुत्पाद इति स्थितम् । प्रशस्तपादभाष्यस्थसारांशोऽप्यवधार्यताम् ॥ फलाभिसन्धिरहितज्ञानपूर्वकधर्मतः । विशुद्धे हि कुले जन्म जिज्ञासा दुःखगोचरा ॥ ततश्चाचार्योपसत्तिः ततस्तत्त्वविनिर्णयः । मिथ्याज्ञाननिवृत्तेस्तु रागद्वेषविहीनता ॥ ततः प्रवृत्त्यनुत्पादः भोगात्संचितसंक्षयः । शरीरपरिखेदश्च सन्तोषसुखमेव च ॥ भोगस्स्यादैकभविकपक्षः प्रायोऽत्र सम्मतः । अनैकभविके पक्षे वैकल्यं सहकारिणः ॥ निवृत्तिलक्षणो धर्मः केवलः परमार्थजात् । दर्शनात्सुखमुत्पाद्य स्वयमेव निवर्तते ॥ शरीरादिनिवृत्तौ तु निर्बीजस्यात्मनस्तदा । पुनश्शरीरानुत्पत्तौ दग्धेन्धनकृशानुवत् ॥ दुःखस्योपशमो मोक्षः स्वयमेव भविष्यति । आत्मा विभुत्वद्रव्यत्वस्वरूपेणावतिष्ठते ॥