मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 627, कुल 672 में से
संदर्भ में पढ़ेंभाट्टसिद्धान्तः 58. जिज्ञासामननोपास्तिभेदेन त्रिविधं त्विदम् । ज्ञायते फलसंबन्धः त्रिविधस्तदपेक्षितः ॥ 3 स सर्वलोकानाप्नोति स संपन्नो महीयते । एष सर्वोऽप्यभ्युदयः तथा निःश्रेयसं पुनः ॥ स खल्वेवं वर्तयन्नित्याद्याभिश्च प्रतीयते । परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता ॥ 4 कर्मणामुपयोगोऽपि तत्र त्वेवं भविष्यति । नित्यनैमित्तिकाभ्यां स्यादुपात्तदुरितक्षयः ॥ अथवाऽकरणाधीनप्रत्यवायपराभवः । 5 नच ज्ञानविधानेन कर्मसंबन्धवारणम् ॥ नच तेषां फलं भिन्नं विभिन्ना पदवीत्यपि । न विकल्पोऽथ बाधो वा नाङ्गाङ्गित्वं मिथोऽथवा ॥ संभावनापदं यस्मात् श्रुतिस्स्पष्टोपरोध्यते । तस्मात्समुच्चयो न्याय्यः प्रामाण्याच्छास्त्रयोर्द्वयोः ॥ इत्थमत्र बृहट्टीकावाक्यं राणक उद्धृतम् ॥ ननु निःश्रेयसं ज्ञानात्, बन्धहेतोर्न कर्मणः ॥ नैकस्मादपि तत्किंतु ज्ञानकर्मसमुच्चयात् । नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥ ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् । वैराग्यात्पक्वविज्ञानः कैवल्यं च व्रजेदिति ॥ M.R. 74