मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 639, कुल 672 में से
संदर्भ में पढ़ेंकर्मज्ञानतत्त्वम् ५ २ आत्मनः परिणामोऽयं ज्ञानमित्याह जैमिनिः । आत्मनः स्रवणं ज्ञानमित्यर्हत्प्रमुखा विदुः ॥ अन्तःकरणवृत्तिस्स्यादिति कापिलपद्धतिः । आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥ स्फुरणं स्फुरतो धर्मः नित्यो वह्न्युज्ज्वलत्ववत् तमेव मार्गं प्रायेण द्वैताद्वैतविदो विदुः ॥ आत्मनो धर्मभूतं च नित्यं द्रव्यान्तरं स्थितम् । तस्य च प्रसरः ज्ञानं विशिष्टाद्वैतसम्मतम् ॥ बुद्धिनित्यत्ववादश्च योऽसौ शाबरसंमतः । स पर्यवस्यत्यत्रेति प्रायो मीमांसका विदुः ॥ ज्ञानं विषयभेदेन भिन्नं व्यापारलक्षणम् । तस्याश्रयो बुद्धिरेका नित्येति च समर्थिता ॥ सा च प्रमात्रात्मिकेति न्यायरत्नाकरोदिता । यदि बुद्धिः प्रमातृस्था शक्तिरेकेति कथ्यते ॥ तादात्म्यानभ्युपगमे विशिष्टाद्वैतनिर्णयः । अत्यन्ताभेदपक्षे तु स्यादद्वैतविनिर्णयः ॥ तादात्म्यपक्षः भाट्टेष्टः शक्तिशक्तिमतोरपि। स च भर्तृप्रपञ्चेष्टो वादस्स्यादिति निर्णयः ॥ एवं स्थिते विनाशं चाप्युद्भवं च निरन्वयम् । आहुर्ये न्यायनिपुणाः ते ज्ञानं गुणमब्रुवन् ॥