भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 653, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 653

वाक्यपद्यामपि विधिविवेके चाभिसूचितम् । हरिणा मण्डनेनापि सर्वसारार्थदृश्वना ॥ तस्मात्सर्वोऽभ्युपगमः प्रतिभामूल इष्यते । न शब्दः प्रतिभाहेतुः स्वातन्त्र्यमुपगच्छति ॥ शास्त्राणां चापि तात्पर्यनिर्णयोऽभ्यासमूलकः । तस्माद्यौक्तिक एवार्थः स्थापितश्शब्दमूर्धनि ॥ शब्दपृष्ठस्थितन्यायसहस्राधिक्रियात्मके । शास्त्रेऽपि न्यायलभ्योऽर्थः शास्त्रसिद्ध इतीष्यते॥ २ अथ शास्त्रेण सिद्धोऽर्थो यदि युक्त्या दृढो भवेत् । एवं स्यात्कृपणश्शब्दः नेष्टोऽसंप्लववादिनाम् ॥ अत्रोदाहरणं स्पष्टमेषोऽप्यर्थो भविष्यति । वेदान्तसिद्धान्ताक्षेपः तत्त्वटीकानिरूपितः ॥ स्वप्रकाशा मतिः धीत्वात् दृश्यत्वादिमतं मृषा । इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया । ननुचोपासनादीनां सिद्धयै तच्चिन्तनं यदि । तच्चेदद्वैतधीसिद्धयै वृथा स्यात्तद्विरोधतः ॥ फलान्तरार्थं तच्चिन्ता यदिष्येत तथासति । मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य तत् ॥ श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी । इति शक्यं न वदितुं अदृष्टस्यानपेक्षणात् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 653, कुल 672 में से · BharatKosha