मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 654, कुल 672 में से
संदर्भ में पढ़ें12 मानमेयरहस्यश्लोकवार्तिके अनुमानाच्च शब्दाच्च रज्जुसर्पादिविभ्रमे । अविशेषेण बाधो हि दृष्टस्तद्वदिहापि च ॥ प्रत्यक्षं शब्दजन्यं तु दुस्साधं चापि निष्फलम् । परोक्षादपि शब्दोत्थाद्बाधसंभवदर्शनात् ॥ न चानुमानाशक्तस्य वाक्यमित्यपि युज्यते । सर्वमानान्तरानर्हे शास्त्रप्रामाण्यसाधनात् ॥ अनेकनियमोपेतवाक्यचिन्ताविधेर्वरम् । लोकदृष्ट्यनुसारेण युक्तिचिन्तेति निर्णयः ॥ 3 ब्रह्मापि जगतो हेतुः युक्तिभिः किल साध्यते । प्रधानं जगतो हेतुः प्रसिद्धं ह्यानुमानिकम् ॥ श्रोतव्यश्चाथ मन्तव्य इति तर्कसहायताम् । श्रुतिरेव स्वयं प्राह तस्मात्तर्को विशिष्यते ॥ केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ इत्थं बृहस्पतिः प्राह स्मृतितन्त्रे व्यवस्थितिम् । पूर्वापरानुमानेन लोको युक्तौ प्रतिष्ठितः ॥ अबलाबालगोपालहालिकप्रमुखा अपि । बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा । लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥