भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 89, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 89

सांख्यदर्शनम् धर्माधर्मादयो भावाः तैर्लिङ्गमधिवासितम् । परिगृह्य स्थूलदेहं नटवद्व्यवतिष्ठते ॥ 9 भावैर्विना न लिङ्गं स्यात् न भावा लिङ्गमन्तरा अतोऽस्ति द्विविधस्सर्गः एष प्रत्ययलक्षणः ॥ तृतीयो भौतिकस्सर्गः स्थूलो देवादिभेदतः । लिङ्गेषु बुद्धिर्मुख्येति सैव व्यवहृतेः पदम् ॥ साऽचेतना चितिच्छायापत्त्या चेतनवद्भवेत् । चेतनोऽपि ज्ञानसुखदुःखवानिव लक्ष्यते ॥ 10 अन्योन्यानुग्रहस्सोऽयमविवेकानिबन्धनः । बुद्धिर्महत्तत्त्वमेतदन्तःकरणमुच्यते ॥ प्रत्यभिज्ञाऽनुसंधानकार्यनिर्वहणक्षमा । विषयाकारिणी बुद्धिवृत्तिः ज्ञानमितीर्यते ॥ बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायोऽपि स स्मृतः । उपलब्धिः पुनः पुंसो वृत्तिमद्बुद्धिदर्शनम् ॥ तस्मात् ज्ञानं चोपलब्धिः बुद्धिश्चार्थान्तरं मतम् ततश्च बुद्धिः त्रिविधै रञ्जकैरुपराज्यते ॥ 11 विषयेणोपरागोऽयं संबन्धो ज्ञानलक्षणः । पुरुषेणोपरागो यः स भेदाग्रहलक्षणः ॥ व्यापारेणोपरागोऽयं वृत्तिः कर्तव्यामित्यसौ । तस्मान्ममेदं कर्तव्यमिति बुद्धेर्निरूपणा ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 89, कुल 672 में से · BharatKosha