मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 90, कुल 672 में से
संदर्भ में पढ़ें48 मानमेयरहस्यश्लोकवार्त्तिके अविभागोऽपि बुद्ध्यात्मा भ्रान्तैरेवं निरीक्ष्यते । ग्राह्यग्राहकसंवित्तिभेदवानिति सौगताः ॥ सविभागोऽपि बुद्ध्यात्मा भ्रान्तैरित्थं विलोक्यते । उपरागैस्त्रिभिरविभक्तात्मैवेति कापिलाः ॥ बाह्यमाभ्यन्तरं चेति करणं द्विविधं मतम् । 12 चक्षुराद्यं दशविधं बाह्यमाभ्यन्तरं पुनः ॥ मनोऽहंकारबुद्ध्याख्यं त्रिविधं तत्प्रकीर्तितम् । आलोचना बाह्यवृत्तिः संकल्पो मनसो मतः ॥ अभिमानोऽहंकृतेः स्याद्बुद्धिरध्यवसायभूः । अन्तःकरणसामान्यवृत्तिः प्राणा इतीर्यते ॥ शारीरके प्राणचिन्ता चैतत्सिद्धान्तदूषणी । अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ॥ बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् । संमुग्धं वस्तुमात्रं तु प्राग्गृहन्त्यविकल्पितम् ॥ तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः । इति प्राहुस्सांख्यवृद्धाः प्रायस्सौगतसोदराः ॥ 13 सत्त्वं रजस्तम इति गुणाः प्रकृतिलक्षणाः । सुखं दुःखं च मोहश्च तदेषामुपलक्षणम् ॥ प्रकाशश्च प्रवृत्तिश्च नियमश्च प्रयोजनम् । अन्योन्याभिभवे शान्ता घोरा मूढा च वृत्तयः ॥