मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 92, कुल 672 में से
संदर्भ में पढ़ें50 मानमेयरहस्यश्लोकवार्तिके तत्त्वनिर्णयमात्रेण भगवान्न प्रसीदति । न वा निःश्रेयसं तस्मादुपास्त्यै तत्त्वनिर्णयः (10) पातञ्जल दर्शनम्. 1 हिरण्यगर्भोपज्ञं यद्योगशास्त्रं प्रकीर्तितम् । तदीयसंहितासारं संजग्राह पतञ्जलिः ॥ न परीक्षाशास्त्रमेतत् किंतु स्यादनुशासनम् । स्वार्थोपदेशेन परनिरासोऽप्यभिसंहितः ॥ तत्त्वज्ञानं सांख्यशास्त्रे योगेऽनुष्ठानमुच्यते । ज्ञानानुष्ठानसंयोगात् अपृथक्स्थितिरेतयोः ॥ ज्ञानयोगो भक्तियोगः प्रथमे पाद ईरितः । कर्मयोगस्तदुभयहेतुस्साधनपादगः ॥ विभूतिपादेऽभ्युदयः निःश्रेयसमथान्तिमे । प्रतिपादं प्रधानार्था इति शास्त्रार्थसंग्रहः ॥ ज्ञानयोगस्स्वात्मचिन्ता भक्तिरीश्वरचिन्तनम् । कर्मयोगः कर्मनिष्ठा फलसंगविवर्जिता ॥ हेयं च हेयहेतुश्च मोक्षस्तद्धेतुरित्यपि । शास्त्रं व्युत्पादयत्येतदिममर्थचतुष्टयम् ॥ 2 सर्वान् जन्तूनुद्दिधीर्षुः दुःखसंसारसागरात् । उपादत्ते सत्त्वचित्तं परः कारुणिकः पुमान् ॥