मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 93, कुल 672 में से
संदर्भ में पढ़ेंपातञ्जलदर्शनम् 51 अनुग्रहोपदेशादेर्विना तेन न संभवः । सर्गप्रलयसन्तानः बीजाङ्कुरवदिष्यते ॥ ज्ञानक्रियाशक्तियुक्तं चित्तं सर्वातिशाय्यदः । अनादिसिद्धं तस्यास्ति शुद्धसत्त्वं प्रधानजम् ॥ पूर्वपूर्वोपात्तचित्तं तादृक्संकल्पवासितम् । उत्तरोत्तरचित्तानामुपादाने निबन्धनम् ॥ सात्त्विकाः परिणामाश्च तस्य भोग्यतया स्थिताः । नचेश्वराणां नानात्वं भिन्नाभिप्रायभङ्गतः ॥ ज्ञानैश्वर्ये शुद्धसत्त्वे स्यातामस्य सनातने । पुंप्रकृत्योश्च संयोगवियोगौ तन्निबन्धनौ ॥ ३ सर्वज्ञलिङ्गं निरतिशयमीशनलक्षणम् । प्रणिधानं नाम भक्तिः तदुपासनलक्षणम् ॥ इच्छामात्रेण सकलजगदुद्धरणक्षमः । यतस्तदेकाश्रयणं वरणं शरणस्य तत् ॥ यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् । सर्वभूतानुग्रहोऽस्य जगत्कर्तुः प्रयोजनम् ॥ स कालेनानवच्छेदात्पूर्वेषां गुरुरुच्यते । प्रणवो वाचकस्तस्य तन्मूलं तदुपासनम् ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमाचरेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रसीदति ॥